[जपविधिः]
७४७
संस्काररत्नमाला ।
( वाचिकोपांशुत्वयोर्लक्षणम् )
अनामामध्यमूलकनिष्ठामूलमध्याग्रानामाग्रमध्यमाग्रमध्यमूलपर्यन्तमिति नवसु
पर्वसु गणनायां कृतायां नववारं मन्त्रजपो भवति । एवं द्वादशवारं पुनः
पुनरावर्तनेनाष्टोत्तरशतजपो भवति । द्वादशोत्तरशतावृत्त्याऽष्टोत्तरसहस्रजपो
भवति । इत्थमयुतादिष्वप्यूहनीयम् ।)
कपिलपञ्चरात्रे--
"एकचित्तः प्रशान्तात्माऽप्यक्षसूत्रकरः शुचिः ।
भुग्नग्रीवोन्नतः शान्तः कण्डून्मीलनवर्जितः ॥
सविसर्गं समात्रं च सबिन्दुं साक्षरं स्फुटम् ।
न द्रुतं नापि विश्रान्तं क्रमान्मन्त्रं जपेत्सुधीः" इति ॥
|
व्यासः--
"न च क्रामन्न च हसन्न पार्श्वमवलोकयन् ।
नापाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संश्रावयञ्जपेत्" इति ॥
|
बौधाय[१]नोऽपि-- "नाभेरधस्तु संस्पर्शं कर्मयुक्तो हि वर्जयेत्" इति ।
व्यासोऽपि--
"जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्वेवाव[२]सक्तस्तु यथा गच्छन्द्विजोत्तमः ॥
अभिवाद्य ततो विप्रं योगं क्षेमं च कीर्तयेत्" इति ।
|
गौतमोऽपि-
"क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भणे ।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि" इति ॥
|
नृसिंहपुराणे--
"त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ।
वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ॥
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्तरः" इति ।
|
वाचिकोपांशुत्वयोर्लक्षणं पुराणेऽभिहितम्--
"यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
अपरैरश्रुतः किंचित्स उपांशुजपः स्मृतः" इति ॥
|
- ↑ क. यनस्तु--ना ।
- ↑ ड. 'वशक्त ।