पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मालासंस्कारकालः]
७४३
संस्काररत्नमाला

जपकाले सदा वि[१]द्वान्मेरुं नैव विलङ्घयेत् ॥
परिवर्तनकाले च संघट्टं नैव कारयेत् ।
कलिः खटखटाशब्दे दोलमाने चलन्मतिः ॥
चलिते चैव विद्वेषः स्फुटिते व्याधिसंभवः ।
हस्तच्युते महाविघ्नः सूत्रच्छेदे विनश्यति" इति ॥

 चलिते मध्यमातोऽङ्गुल्यन्तरगते । स्फुटिते मणौ । सूत्रच्छेदे गुणच्छेदेऽपीत्यर्थः ।

 तथा--

"कांसे क्षुते च जृम्भायामेकमावर्तनं त्यजेत् ।
प्रमादात्तर्जनीस्पर्शो भवेदावर्तनं त्यजेत्[२]

 आवर्तनं मन्त्रस्य ।

जपे निषिद्धसंस्पर्शे क्षालयित्वा पुनर्जपेत्" इति ।

 अन्यच्च--

"उल्लङ्घिते तथा मेरौ पतिते वाऽक्षसूत्रके ।
प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति" इति ॥

 ([३]अन्यच्च--

"गलिता चेत्करान्माला छिन्ना स्पृष्टाऽथवा भवेत् ।
प्रक्षाल्य तां पञ्चगव्यैरभिमृश्य ततस्तु ताम् ॥
अष्टोत्तरशतं मूलमन्त्रस्य जपमाचरेत्" इति । )

अथैतस्या मालायाः संस्कारकालः ।

स च योगिनीतन्त्रे--

"द्वादश्यां वैष्णवी माला कर्तव्या साधकोत्तमैः ।
मन्त्रज्ञैर्विष्णुभक्तैस्तु दिव्यभागे प्रयत्नतः" इति ॥

 दिव्यभागः पूर्वाह्णः ।

सूत्रमपि तत्रैव--"कार्पासैर्वैष्णवी माला पट्टसूत्रैरथापि वा" इति ॥

कार्पाससूत्रे विशेषस्तत्रैव--

"ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् ।
त्रिगुणं त्रिगुणीकृत्य सूत्रं प्रक्षाल्य यत्नतः" इति ।

([४]तन्त्रान्तरे--

"ब्राह्मण्या च सुवासिन्या तदभावेऽन्यवर्णया ।
कार्पासनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ॥
प्रक्षाल्य तत्र मालायां मणीन्युक्त्या नियोजयेत्" इति ॥

 अन्यच्च--"सूत्रान्तरेषु तु स्थौल्यमानयोर्निय[५]मो न हि" इति ।

कार्पासव्यतिरिक्तेषु सूत्रेषु[६]


  1. क. ख. ग. विद्यान्मे ।
  2. ख. त् । ज ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।
  5. क. यमा न ।
  6. ख. षु । मालार ।