अथैतेषां फलानि ।
"सिद्धः सिध्यति कालेन साध्यः सिध्यति वा न वा । |
तन्त्रराजे--
"सिद्धसिद्धो जपात्सिध्येद्द्विगुणात्सिद्धसाध्यकः । |
संप्राप्तेः प्राप्तिमात्रात् । जापाद्यैरित्याद्यशब्देन होमतर्पणब्राह्मणभोजनानि गृह्यन्ते ।
अथ प्रकारान्तरेण ऋणधनशोधनम् ।
"द्विगुणीकृत्य साध्यस्थं स्वरव्यञ्जनमण्डलम् । |
साध्यो मन्त्रः । तेन स्वरव्यञ्जनसमुदायेन । अन्यथेति । साधकनामगतं स्वरव्यञ्जनसमूहं द्विगुणीकृत्य साध्यगतस्वरव्यञ्जननिकरेण संमेल्याष्टभिर्हरेत् । शेषं साधकराशिं जानीयादित्यर्थः । शोधित इत्युक्तेन सिद्धारिक्रमेण शोधितोऽनुकूलो मन्त्रो यदि साधकान्न्यूनशेषः स्यात्तदा यावत्या वर्णसंख्यया न्यूनता तावल्लक्षजपादिनर्णमपाकृत्य पुरश्चरणादिकं कुर्यादित्यर्थः । यस्य मन्त्रराशिरधिकः स ऋणी ज्ञेयः । ग्राह्य एवायम् । यस्य मनराशिर्न्यूनः स धनी त्याज्योऽयम् । प्रकारान्तराणि चान्यतोऽवगन्तव्यानि ।