पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२६
भट्टगोपीनाथदीक्षितविरचिता-- [मन्त्रग्रहणकालः]
( ऋणधनचक्रम् )
 

पापयुक्ताः सौम्याश्च । शुभाः शुभग्रहाः, अक्षीणेन्दुपापयोगरहितबुधगुरुभृगवः । केन्द्राणि प्रथमचतुर्थसप्तमदशमस्थानानि । त्रिकोणे नवमपञ्चमस्थाने । सर्वे पापाः शुभाश्च ग्रहा उक्तस्थानगता दीक्षायां शुभा एव । अत एव रन्ध्रेऽष्टमस्थाने स्थिता यदि सर्वे नाशका इति योजना ।

 अथोक्तकालमन्तरेणापि दीक्षार्हः कालस्तन्त्रान्तरे--

"विषुवेऽप्ययनद्वंद्वे संक्रान्त्यां दमनोत्सवे ।
दीक्षा कार्या त्वकालेऽपि पवित्रे गुरुपर्वणि" इति ॥

 विषुवे तुलामेषसंक्रमयोः । अयनद्वंद्वे कर्कमकरसंक्रान्त्योः । संक्रान्त्यां तदन्यसंक्रान्तिषु । दमनोत्सवे चैत्रपौर्णिमादिषु दमनकरणकपूजादिने । पवित्रे श्रावणपूर्णिमायाम् । गुरुपर्वणि गुरोर्जन्मव्याप्तिदिनयोः ।

अन्यत्रापि--

"सत्तीर्थार्कविधुग्रासे पुण्यारण्यवनेषु च ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत्" इति ॥

 प्रकारान्तरं च--

"सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः ।
यस्मिन्नहनि संतुष्टो गुरुः सर्वे शुभावहाः ॥
संतुष्टे च गुरौ तस्य संतुष्टाः सर्वदेवताः ।
गुरुं संतोषयेद्भक्त्या द्वयमेव तदा भवेत्" इति ॥

 द्वयं भोगमोक्षौ । एवकारोऽप्यर्थः ।

 अधिकारिभेदेन कालो यथा--

"मुमुक्षूणां सदा कालः स्त्रीणां कालस्तु सर्वदा" इति ॥

अथर्णधनचक्रम्--

"नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
गणयेन्मातृकावर्णक्रमेण गुणयेत्त्रिभिः ॥
विभक्ते सप्तभिः शिष्टो नामराशिरुदीरितः ।
एवं मन्त्रार्णमारभ्य यावन्नामादिमाक्षरम् ॥
गणयित्वा त्रिभिर्हत्वा विभजेत्सप्तभिः सुधीः ।
मन्त्रराशिः स्मृतः शिष्टः पूर्ववद्धनिता(त)र्णिता ॥
यद्वा मन्त्राक्षराणीह खरव्यञ्जनरूपतः ।
पृथक्कृत्य द्विगुणयेद्योजयेत्साधकाक्षरैः ॥
तादृशैरष्टभिर्भक्ते मन्त्रराशिरुदाहृतः ।
एवं नामार्णसंघोऽपि द्विगुणीकृत्य योजितः ॥
मन्त्रवर्णैरष्टभक्तो नामराशिः स्मृतो बुधैः ।