पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१२
भट्टगोपीनाथदीक्षितविरचिता-- [वन्ध्यात्वहराण्युपायान्तराणि]
( हरिवंशश्रवणविधिः )
 

प्रयच्छन्तु दिवारात्रमविच्छेदं तथाऽन्वये ।
एवं दत्त्वा तु तद्दानं प्रणिपत्य विसर्जयेत्" इति ॥

इति वन्ध्यात्वहरं सुवर्णधेनुदानम् ।

 उपायान्तरमपि--

"निक्षेपाहरणाच्चैवानपत्यस्तु प्रजायते" इत्युपक्रम्य--

 "अरुण उवाच--

वृथा गृहं धनं धान्यमपुत्रं जन्म निष्फलम् ।
ममोपरि दयां कृत्वा प्रायश्चित्तं वदस्व मे ॥

सूर्य उवाच--

तीर्थयात्र प्रकर्तव्या रेवातापीसमुद्भवा ।
एकेनापि तु वस्त्रेण दंपतीस्नानमुत्तमम् ॥
श्रवणं हरिवंशस्य ब्राह्मणोद्वाहनं खग ।
अष्टोत्तरशतं विप्रान्मिष्टान्नेन तु तर्पयेत् ॥
ईशावास्येतिमन्त्रेण जपं कुर्यात्सहस्रकम् ।
दशांशहोमसहितं कुर्याच्च विधिवत्ततः ॥
पद्मैस्तु लक्षसंख्याकैः शिवं संपूज्य यत्नतः ॥

 कलौ पार्थिवलिङ्गपूजनस्य महापुण्यजनकत्वात्तद्रूपस्य शिवस्य पद्मपूजनमतीव प्रशस्तम् ।

स्वर्णधेनुः प्रदातव्या सवत्सा सुरभिस्तथा ।
घृतकुम्भं वैनतेय ब्राह्मणाय निवेदयेत् ॥
एवं कृते वैनतेय अपत्यं जायते कलौ" इति ॥

अथ हरिवंशश्रवणविधिः ।

 कर्ता ज्योतिर्विदादिष्टे मुहूर्ते विनायकशान्तिं विनायकपूजां वा स्वशक्त्यनुसारेण विधायोदगयने दक्षिणायने वा वैशाखकार्तिकाद्यन्यतमे शुभे मासे ज्योतिर्विदादिष्टे[१] शुभे मुहूर्त आरम्भात्पूर्वं यथाशक्ति गोहिरण्यदानतीर्थयात्राद्यन्यतमप्रत्याम्नायद्वारा प्रायश्चित्तं विधाय देशकालौ संकीर्त्य पूर्वजन्मोपार्जितपापजन्यानपत्यत्वदोषपरिहारपूर्वकनीरोगदीर्घायुरक्षय्यसुगुणपुत्रप्राप्तिकामावावां दंपती हरिवंशं श्रोष्याव इति संकल्पं कुर्यात् । अनया पत्न्या सह हरिवंशं श्रोष्य इत्येवं वा संकल्पः ।

 यदि त्वेकस्या भार्यायाः पुत्रोऽस्ति, एकस्या नास्ति, तदा ममैतस्याः



  1. क. ष्टे मु ।