पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नागबलिप्रयोगः]
७०७
संस्काररत्नमाला

 ततः सर्पं गृहीत्वा चितावारोप्यापः स्पृष्ट्वा श्रोत्रे स्पृष्ट्वाऽप उपस्पृश्याग्निसमीपमेत्य प्रधानहो[१]मं कुर्यात् । 'ॐ भूः स्वाहा' अग्नय इदं० । 'ॐ भुवः स्वाहा' वायव इदं न मम । 'ॐ सुवः स्वाहा' सूर्यायेदं न मम । इति दर्व्याऽग्नौ व्याहृतिभिराज्येनाऽऽहुतित्रयं जुहुयात् । 'ॐ भूर्भुवः सुवः स्वाहा' इति चतुर्थीं सर्पमुखे जुहुयात् । प्रजापतय इदं० । ऋष्यादिस्मरणं पूर्ववत् । व्यस्तानां व्याहृतीनां होमे विनियोगः, समस्तव्याहृतीनां सर्पमुख आज्यहोमे विनियोग इति विनियोगवाक्ये[२] । न च वर्ष्यादयः । आज्यशेषं दर्व्यैव सर्पदेहे निषेचयेत् । त[३]तः समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । अभ्युक्षणे विनियोगः[४] । न वर्ष्यादयः । हस्तगृहीतैश्चमसजलैः समस्तव्याहृतिभिः पाणिनाऽभ्युक्ष्याग्ने रक्षाण इत्यस्य विश्वे देवा रक्षोहाऽग्निर्गायत्री । चितावग्निप्रक्षेपे विनियोगः--'ॐ अग्ने रक्षाणो० रोदह' इत्यायतनस्थमग्निं सर्वं चितौ प्रक्षिपेत्[५] । न वर्ष्यादयः ।

 ततो दर्वीं परिधीन्पात्राणि बर्हिश्चाग्नौ प्रहृत्य तमग्निं प्रदक्षिणीकृत्य सर्पं नमस्कृत्य सर्प क्षमस्वेति क्षमाप्यो(पयित्वो)पस्थानं कुर्यात् । नमो अस्तु सर्पेभ्य इति मन्त्रत्रयस्याग्निः सर्पा गायत्री । सर्पोपस्थाने विनियोगः । नमो अस्तु सर्पेभ्यो० इति त्रिभिर्मन्त्रैरुपतिष्ठते[६] । न वर्ष्यादयः ।

"ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया ।
पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे" इति प्रार्थयेत् ॥

 ततः पौराणमन्त्रैः प्रार्थयेत् । ते चेत्थम्--

"कर्कोटक नमस्तेऽस्तु शङ्खपाल नमोऽस्तु ते ।
नागराज महादेव तव रूपाणि ते नमः ॥
अफणाः फणिनो ये च सविषा निर्विषाश्च ये ।
सर्वे सर्पा व[७]टेशयाः पु[८]ण्यमूर्ते नमोऽस्तु ते ॥
त्वयेयं जगती स्वामिन्स्वफणामण्डलोपरि ।
धृतैकदेशे ह्यणुवत्तस्मै तुभ्यं नमोऽस्तु ते ॥
त्वया भगवते श्रीमद्वासुदेवाय निर्विषम् ।
स्वभोगेनैव पर्यङ्कमायस्तं भोगिनां वर ॥



  1. ग. होमान्तं कु ।
  2. ख. क्ये विशेषः । ऋष्यादयो न वा । आ । ङ. च. क्ये । आ ।
  3. क. ततोऽस ।
  4. ख. गः । ऋष्यादयो न वा । ह । ङ. च. गः । ह ।
  5. ङ. च. त् । त ।
  6. ख. ते । ऋष्यादयो न वा । ज्ञा । ड. च. ते । ज्ञा ।
  7. ख. वटश ।
  8. ङ. च. पुष्पमू ।