ततो रात्रावाचारर[१]त्नमालोक्तरीत्या शय्यां परिकल्प्या[२]हतवस्त्रां सुगन्धानुलेपनां ताम्बूलादिना सुवासितवक्त्रां पुष्पैर्माल्यैर्भूषणैश्चालंकृतां सुगन्धां त्रिरात्रव्रतेनाल्पभोजनेन वा कृशां प्रथमं शिष्टेनाकुटिलेन ब्राह्मणेन शुद्धभावेन कृतसंभाषां शय्यामारूढां स्वयमपि तथैव भूत्वाऽऽचम्य निवीती भूत्वा तर्जन्यां रौप्यं धृतं चेत्तन्निष्काश्य शिखां विस्रस्य, 'ॐ विष्णुर्योनिं कल्पयतु० र्धेनुगा भव' इत्येतैः सुरतार्थं समीपमाह्वयेत् । ततस्तां दीपसमीप एव वामभागे शय्यायां शाययित्वा,
"ॐ सं नाम्नः स हृदयानि सं नाभिः सं त्वचः । |
इत्येतैः प्रतिमन्त्रं रेतोऽवस्कन्दयेत् । अधिकं चेत्तूष्णीमेवावस्कन्दनीयम् । एतेषु मन्त्रेष्वसावितिपदं निष्काश्य तत्र भार्यायाः संबुद्ध्या दान्तं नाम ग्राह्यम् । यथाऽमुकद इति । नानाविधसुरतप्रकारास्तु पञ्चसायकादिकामशास्त्रग्रन्थेभ्यो द्रष्टव्याः । यदि कामयेत स्वीरित्यङ्गुलीरितिवचनात्स्त्रीणामेव जननायोपगमनं चेत्तदा लिङ्गविरोधाद्वाक्यशेषविरोधाच्च मन्त्राभाव इत्येके ।
अन्ये तु जातिनिर्देशात्पुंलिङ्गस्याविवक्षितत्वाद्दुहितृपुत्रादिपुंजननस्य विद्यमानत्वाद्वा लिङ्गार्थवादाविरोधान्न मन्त्राभाव इत्याहुः ।
ततो यज्ञोपवीत्यशिरस्कं स्नानं कृत्वा निष्काशितं तर्जनीधृतं रौप्यं पुनस्तर्जन्यां धृत्वा शिखां बद्ध्वा पौराणाचमनप्राणायामौ कृत्वा विष्णुं संस्मरेत् । ऋतुव्यतिरिक्तकाले गमने तु पादप्रक्षालनाङ्गप्रोक्षणे एव न स्नानम् । लेपप्रक्षालनं त्वत्रापि । ततः पृथक्शयनौ भवतः । भार्यायास्तूभयत्राप्यशुचिता नैवास्ति । ऋतुव्यतिरिक्तकाले स्वेच्छातो न गच्छेत् । स्त्रीच्छया गच्छंस्तु नैव दुष्यति ।
ततः श्वोभूते नित्यनिर्वर्तनानन्तरं ब्राह्मणेभ्यो भूयसीं दत्त्वा देवता
विसृज्य ब्राह्मणान्भोजयेत् । अन्यदपि कुलाचारप्राप्तं चेत्तत्सर्वं कर्तव्यम् ।