पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[संस्काराः]
संस्काररत्नमाला ।

स्तकर्माचरणं मङ्गलं तस्य भावो माङ्गल्यम् । अदैन्यपूर्वकं सत्पात्रे भक्त्या शक्त्या च प्रत्यहं दानमकार्पण्यम् । परकीयवस्तुन्यभिलाषः स्पृहा तद्भिन्नाऽस्पृहा । सूत्रकृताऽऽश्वयुज्या अविधानात्तत्रौपासनहोमः संस्थात्वेन ग्राह्यः ।

 उक्तं च वैखानसेन--

 "स्थालीपाकोऽष्टका अमाश्राद्धमौपासनहामः श्रावण्याग्रहायणी चैत्रीति सप्त पाकयज्ञसंस्था वैश्वदेवमेके चैत्रीस्थाने समामनन्ति" इति ।

 पाकयज्ञसंस्थाः सप्तेत्यन्वयः । पाकयज्ञसंस्था उद्दिश्य सप्तत्वं विधीयते । तच्च सप्तत्वं चरमपदलक्षणया सप्तान्यतमत्वम् । उद्देश्यविधेयभावस्थले विधेयतावच्छेदकरूपेण विधेयस्योद्देश्यतावच्छेदकव्यापकत्वबोधो व्युत्पत्तिसिद्धः । उद्देश्यतावच्छेदकं पाकयज्ञसंस्थात्वम् । विधेयतावच्छेदकं सप्तान्यतमत्वम् । तच्चाष्टकादिभेदसप्तकाभाववत्त्वम् । तथा च पाकयज्ञसंस्थाः सप्तान्यतमा इत्यर्थे सिद्ध आधिक्यव्यवच्छेदसिद्धिः । एतेन सिद्ध्यसिद्धिव्याघातो निरस्तः । न्यूनत्वव्यवच्छेदस्तु सप्तत्वान्वयादेव लभ्यते । बौधायनेन तु पाकयज्ञसंस्थानामपरिमितत्वमपि पक्ष उक्तं कर्मान्तसूत्रे--

 "अपरिमिता उ हैके ब्रुवते यच्च किंचान्यत्र विहाराद्भूयते सर्वास्ताः पाकयज्ञसंस्थाः" इति ।

 अत्रैतद्भवस्वामिभाष्यम्--

 "अविशेषेण यत्किंचित्त्रेताग्नेरन्यत्र हूयते सर्वास्ताः पाकयज्ञसंस्थाः" इति ।

 एतेनापरिमितत्वं दर्शितमिति । एतन्मते सप्तान्यतमत्वं सप्तपदेन न लक्षणीयम् ।

 अङ्गिराः--

गर्भाधानं पुंसवनं सीमन्तो बलिरेवच ।

बलिर्विष्णुबलिः ।

जातकृत्यं नामकर्म निष्क्रमोऽन्नाशनं तथा ।
चौलकर्मोपनयनं तद्व्रतानां चतुष्टयम् ।
स्नानोद्वाहौ चाऽऽग्रयणमष्टकाश्च यथायथम् ।
श्राव[१]ण्यमाश्वयु[२]ज्यं च मार्गशी[३]र्ष्यं च पार्वणम् ।
उत्सर्गश्चाप्युपाकर्म महायज्ञाश्च नित्यकाः ।

नित्या एव नित्यकाः । स्वार्थे कप्रत्ययः ।


  1. क. ख. वण्यामा ।
  2. क. ख. युज्यां च ।
  3. क. ख. शीर्ष्यो च ।