स्थविष्ठत्वं स्थूलतरत्वं तन्मध्यमस्य परिधेः । अणीयस्त्वं सूक्ष्मत्वं मध्यमापेक्षया दक्षिणार्ध्ये । एवं द्राघीयस्त्वं दीर्घत्वमपि । अणिष्ठत्वं सूक्ष्मतरत्वं ह्रसिष्ठत्वं ह्रस्वतरत्वम् । एते मध्यमापेक्षयैवोत्तरार्ध्ये । अर्धशब्दो भागवाची । दक्षिणभागे भवो दक्षिणार्ध्यः । उत्तरभागे भव उत्तरार्ध्यः ।
इध्मस्य परिधीनां परिमाणं[१] वैलङ्किकात्यायनावाहतुः-- "द्विप्रादेश इध्मस्त्रिप्रादेशाः परिधयः" इति ।
बौधायनगृह्ये ([२]तु परिधीनामरत्निमात्रत्वमुक्तम्-- "अरत्निमात्राः परिधयः शुष्का आर्दा वा सत्वक्काः" इति । एतच्चाऽऽयतनस्याल्पमानत्वेऽत्रोपयुक्तं भवतीति द्रष्टव्यम् । इध्मस्य प्रादेशपरिमितत्वमप्युक्तं तेनैव-- "प्रादेशमात्राण्येकविंशतिमिध्मदारूणि भवन्तीति ब्राह्मणेन व्याख्यातम्" इति ।
एतस्मात्सूत्रादेकविंशतिसंख्यातः परिधीनां भिन्नत्वम् । इदं च बौधायनीयानामेव नास्माकम् । "तस्मिञ्छम्याः परिधीनिध्म उपसंनह्यति" इत्यत्रत्येध्मग्रहणेन सूत्रकृता भेदाभावस्यैव ज्ञापितत्वेन तद्विरुद्धभेदस्यास्वीकारात् ।) द्विप्रादेश इध्मः प्रादेशमात्रो वेति ।
परिधीनां बाहुमात्रत्वमप्युक्तं भरद्वाजेन-- "शम्यामात्रा बाहुमात्रा वा परिधयः" इति । शम्या षट्त्रिंशदङ्गुला । द्विचत्वारिंशदगुलो बाहुः ।
संग्रहे--
"समित्पवित्रं वेदश्च त्रयः प्रादेशसंमिताः |
प्रादेशः प्रादेशप्रमाणः । द्विगुणो द्विप्रादेशः परिधिरित्यर्थः । परिधिरिति जातावेकवचनम् । एतस्माद्वचनाद्गृह्य इध्मस्य पाक्षिकं प्रादेशत्वं परिधीनां पाक्षिकं द्विप्रादेशत्वं च ज्ञेयम् । अयं च पक्षोऽसंभवे ज्ञेयः । परिधीनां न्यूनाधिकभाव उक्तो बौधायनगृह्ये-- "तिस्रः शम्याः परिधीन्करोति[३] मध्यमाङ्गुलिरनामिका कनिष्ठिका" इति । प्रमाणानीति शेषः । बाहुमूलमारभ्य मध्यमाङ्गुल्यग्रान्तपरिमितो दक्षिणः । बाहुमूलमारभ्यानामिकाग्रान्तपरिमितो मध्यमः । बाहुमूलमारभ्य कनिष्ठिकाग्रान्तपरिमित उत्तर इत्यर्थः । अन्यत्स्प