आहुतिपरिमाणः । उष्ट्रमुखशब्दवन्मध्यमपदलोपी समासः । यावत्य आहुतयस्तावद्दारुको भवेदित्यर्थः । जयादीनुपहोमान्वर्जयित्वाऽङ्गप्रधानाहुतयो गणयितव्या इति केचित् । जयादयोऽपि गणयितव्या इत्यन्ये । तस्मिन्निध्मे शम्याः शम्याकृतिकांस्त्रीन्परिधीनुपसंनह्यति बध्नाति । शम्याशब्द इहाकृतिवचनः । "शम्याभिः परिदधाति" इत्युत्तरत्र विधानादेव परिधीनां शम्याकृतित्वे सिद्ध इह शम्याग्रहणमुपसंनहनकाल एव शम्याकृतित्वसंपादनं यथा स्यादूर्ध्वं मा भूदित्येतदर्थम् । एकविंशतिदारुत्वपक्षे श्रौतविकृतिषु चतुर्विंशतिदारुत्वस्य दृष्टत्वात्परिधीनधिकानिच्छन्त्येके । अपरे तु संख्यायां परिधीनन्तर्भावयन्ति, तथा दर्शपूर्णमासयोर्दृष्टत्वादिति । आहुतिपरिमाणत्वपक्षे तु प्रत्याहुतिसमिधां दर्शनादभ्यधिकत्वमेव परिधीनां न्याय्यम् । शम्याः परिधीनुपसंनह्यतीत्युच्यमाने पृथगभ्यधिकानामुपसंनहनं प्राप्नोति तन्मा भूदिति तस्मिन्निध्म इत्युच्यते । तस्मिन्नित्येव सिद्ध इध्मग्रहणमिध्मसंख्यायां परिधीनामन्तर्भावार्थम् । इध्मेत्येव सिद्धे तस्मिन्निति वचनमाहुतिपरिमाणत्वेऽभ्यधिका एवेतिख्यापनार्थमिति मातृदत्तोऽपि ।
श्रौतसूत्र इध्मवृक्ष उक्तः--
"पालाशं खादिरं वैकवि शतिदारुमिध्म संनह्यति" इति । |
परिधिस्वरूपमपि तत्रैवोक्तम्--
"त्रयः परिधयोऽनियतवृक्षाः सत्वक्का आर्द्रा भवन्ति ते हि सरसा इति विज्ञायते शुष्का भवन्ति मेध्यत्वायेति विज्ञायते स्थविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः" इति ।
अनियतवृक्षा नानाजातीयवृक्षा उपादानं येषां ते । सत्वक्कास्त्वक्सहिताः । एतच्च विशेषणं गार्ह्ये न संभवति । सूत्रकृता परिधीनां शम्याकृतित्वविधानात्तस्य च विना तक्षणमसंभवात् । युक्त्या स्थूलकाष्ठमूलभागस्य सूक्ष्मत्वमग्रभागस्य स्थूलत्वं शम्याकृतित्वार्थं तक्षणेन कर्तव्यमेव । एवं च श्रौतसूत्रदृष्टायाः सत्वक्कतायाः शम्याकृतिविधिना बाधः । ते हि सरसा इति विज्ञायत इत्ययमर्थवादः । आर्द्रा भवन्तीत्यस्मिन्नर्थे शुष्का भवन्तीत्यस्मिन्नर्थे मेध्यत्वायेति विज्ञायत इत्ययमर्थवादः । एतच्चार्थवादद्वयप्रदर्शनं कर्माङ्गत्वज्ञानार्थम् । उक्तं च बौधायनेन-- "अर्थवादैरभ्युदयाय" इति । एवं चाऽऽर्द्राः शुष्का वा परिधयः कर्तव्या इति पक्षद्वयं ज्ञेयम् । अर्थवादाज्ञाने यजुर्भ्रेषप्रायश्चित्तं भुवः स्वाहेत्यौपासनाग्नावेव हुत्वा सर्वप्रायश्चित्तं जुहुयात् ।