पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७८
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( स्त्रीधर्माः )
 

 स्त्रीशूद्रद्विजबन्धूनां वेदश्रवणेऽनधिकारः ।

 तथा च पुराणम्--

"स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
इति भारतमाख्यातं कृपया मुनिना कृतम्" इति ॥

 द्विजाच्छूद्रायां जातो द्विजबन्धुः । यदीयश्रवणेऽनधिकारे किमु वक्तव्यं पठनानधिकारे ।

 सूतसंहितायाम्--

"अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च ।
वैश्याश्च तारतम्येन ज्ञानाभ्यासेऽधिकारिणः ॥
द्विजस्त्रीणामपि श्रौतज्ञानाभ्यासेऽधिकारिता ।
शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥
सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः" इति ॥

 सिद्धान्तः स्मृत्यर्थः ।

 रामायणेऽपि--

"पठन्द्विजो वागृषभत्वमीयात्सुक्षत्रियो भूपतितां समीयात् ।
वणिग्जनः पुण्यफलत्वमीयाच्छृण्वंस्तु शूद्रोऽपि महत्त्वमीयात्" इति ॥

 इदमपि विप्रद्वारैव ।

 तदुक्तं भविष्ये--

"देवार्चां पुरतः कृत्वा ब्राह्मणांश्च नृपोत्तम ।
श्रोतव्यमेव शूद्रेण तथाऽन्यैश्च द्विजातिभिः" इति ॥

 स्मृत्यन्तरेऽपि--

"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः" इति ।

 पुराणश्रवणविधानादेव तदन्तर्गतवैदिकमन्त्रश्रवणेऽपि न दोषः ।

 तदुक्तं वार्तिके--

"तानेव वैदिकान्मन्त्रान्भारतादिनिवेशितान् ।
विहाय मन्त्रनियमं लोकबुद्ध्या प्रयुञ्जते" इति ॥

 यद(द्य)प्यदृष्टहेतुत्वं न वैदिकत्वं विनाऽस्ति तेन स्तोत्रादेरपि वेदे सत्त्वं कल्प्यते तथाऽपि वचनाद्दोषाभावः। ए[१]वं च शूद्रस्य विप्रद्वारेण पुराणश्रवणेन ज्ञानमिति ।



  1. क. वं सिद्धं शू ।