स्त्रीशूद्रद्विजबन्धूनां वेदश्रवणेऽनधिकारः ।
तथा च पुराणम्--
"स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । |
द्विजाच्छूद्रायां जातो द्विजबन्धुः । यदीयश्रवणेऽनधिकारे किमु वक्तव्यं पठनानधिकारे ।
सूतसंहितायाम्--
"अन्ये च ब्राह्मणा विष्णो राजानश्च तथैव च । |
सिद्धान्तः स्मृत्यर्थः ।
रामायणेऽपि--
"पठन्द्विजो वागृषभत्वमीयात्सुक्षत्रियो भूपतितां समीयात् । |
इदमपि विप्रद्वारैव ।
तदुक्तं भविष्ये--
"देवार्चां पुरतः कृत्वा ब्राह्मणांश्च नृपोत्तम । |
स्मृत्यन्तरेऽपि--
"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः" इति । |
पुराणश्रवणविधानादेव तदन्तर्गतवैदिकमन्त्रश्रवणेऽपि न दोषः ।
तदुक्तं वार्तिके--
"तानेव वैदिकान्मन्त्रान्भारतादिनिवेशितान् । |
यद(द्य)प्यदृष्टहेतुत्वं न वैदिकत्वं विनाऽस्ति तेन स्तोत्रादेरपि वेदे सत्त्वं कल्प्यते तथाऽपि वचनाद्दोषाभावः। ए[१]वं च शूद्रस्य विप्रद्वारेण पुराणश्रवणेन ज्ञानमिति ।
- ↑ क. वं सिद्धं शू ।