पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६७३
संस्काररत्नमाला
( रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः )
 

 पश्वादिस्पर्शे कश्यपः--

"स्पृष्ट्वोदक्या पञ्चनखान्द्विशफैकशफान्पशून् ।
अण्डजानि च सर्वाणि अनशः स्नानवासरात्" इति ॥

 अनशोऽनशनम् ।

 श्वादिदंशे पुलस्त्यः--

"रजस्वला यदा दष्टा शुना जम्बूकरासभैः ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
ऊर्ध्वं तु द्विगुणं नाभेर्वक्त्रे तु त्रिगुणं तथा ।
चतुर्गुणं स्मृतं मूर्ध्नि दंशेऽन्यत्राशुचिर्भवेत्" इति ॥

 अन्यत्र रजस्वलावस्थाया इति शेषः । यत्र यत्र स्नानं दिनत्रयमध्ये विहितं तत्र पूर्वाक्तेन नैमित्तिकस्नानप्रकारेण कर्तव्यम् ।

इति रजस्वलायाः शुद्धिविचारः ।

 अथ प्रसङ्गाद्रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः ।

 तत्र चेतनानां सचैलं स्नानम् । अचेतनानां पीठादीनां प्रक्षालनम् ।

 रजस्वलास्पृष्टचेतनस्पर्श आचमनम् ।

"नरो रजस्वलास्पृष्टः सचैलं स्नानमाचरेत् ।
अचेतनांस्तया स्पृष्टान्क्षालयेच्छुद्धवारिणा ॥
उदक्यास्पृष्टसंस्पर्शे शुद्धिराचमनेन हि" ॥

 इति स्मृत्यन्तरोक्तेः । उदक्या रजस्वला । एतच्चाकामतः ।

 कामतस्तु--

" दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति" ॥

 इति मनूक्तं स्नानमेव तस्यापि ।

 तृतीयस्याप्याचमनमाह संवर्तः--

"तत्स्पर्शिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते ।
ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा" इति ॥

 एतदप्यकामतः । कामतस्तु स्नानमेव ।

 तथा च गौतमः--

"चण्डालसूतिकोदक्याशवस्पर्शिनस्तत्स्पर्श्युपस्पर्शने
सचैलस्नानाच्छुध्येत्" इति ।


७५