पश्वादिस्पर्शे कश्यपः--
"स्पृष्ट्वोदक्या पञ्चनखान्द्विशफैकशफान्पशून् । |
अनशोऽनशनम् ।
श्वादिदंशे पुलस्त्यः--
"रजस्वला यदा दष्टा शुना जम्बूकरासभैः । |
अन्यत्र रजस्वलावस्थाया इति शेषः । यत्र यत्र स्नानं दिनत्रयमध्ये विहितं तत्र पूर्वाक्तेन नैमित्तिकस्नानप्रकारेण कर्तव्यम् ।
इति रजस्वलायाः शुद्धिविचारः ।
अथ प्रसङ्गाद्रजस्वलास्पृष्टचेतनाचेतनानां शुद्धिप्रकारः ।
तत्र चेतनानां सचैलं स्नानम् । अचेतनानां पीठादीनां प्रक्षालनम् ।
रजस्वलास्पृष्टचेतनस्पर्श आचमनम् ।
"नरो रजस्वलास्पृष्टः सचैलं स्नानमाचरेत् । |
इति स्मृत्यन्तरोक्तेः । उदक्या रजस्वला । एतच्चाकामतः ।
कामतस्तु--
" दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । |
इति मनूक्तं स्नानमेव तस्यापि ।
तृतीयस्याप्याचमनमाह संवर्तः--
"तत्स्पर्शिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते । |
एतदप्यकामतः । कामतस्तु स्नानमेव ।
तथा च गौतमः--
"चण्डालसूतिकोदक्याशवस्पर्शिनस्तत्स्पर्श्युपस्पर्शने |