पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६५१
संस्काररत्नमाला
( वारनक्षत्रफलानि )
 

 वारफलं विधानमालायां वाराहे--

"आदित्ये विधवा नारी सोमे चैव मृतप्रजा ।
आत्मनो घातिनी भौमे बुधे कन्याप्रसूर्भवेत् ॥
गुरौ पुत्रवती नारी कन्यापुत्रप्रसूर्भृगौ ।
र्पौश्चल्यकारिणी मन्दे भर्तुरग्रे म्रियेत सा" इति ॥

 सा रजोवती । नारदीये तु--

"रुग्णा पतिव्रता दुःखी पुत्रिणी भोगभागिनी ।
पतिप्रिया क्लेशभागी सूर्यवारादिषु क्रमात्" इत्युक्तम् ।

 मृतप्रजेति कृष्णपक्षसोमवारविषयम् । पतिव्रतेति शुक्लसोमवारविषयम् । नातो विरोधः ।

 नक्षत्रफलं वाराहे--

"अश्विनी सुखदा स्त्रीणां भरणी कामवर्धिनी ।
कृत्तिका दैन्यदा ज्ञेया रोहिणी सुखदा भवेत् ।
मृगस्तु कामभोगाय सुखदं रुद्रदैवतम् ।
अदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्धनम् ।
आश्लेषाः सुखनाशाय मघा वैधव्यदाः स्मृताः ।
पूर्वा फल्गुनिका पुत्रकन्यासुखविवर्धिनी ।
उत्तरा ह्यर्थनाशाय हस्तः पुत्रप्रवर्धनः ।
चित्रा चित्रतनुं नारीं कुरुते नात्र संशयः ।
स्वाती शुभाय नारीणां विशाखा सुखनाशिनी ।
अनूराधाऽर्थभोगाय ज्येष्ठा भर्तृवियोगदा ।
शुभं वाऽप्यशुभं मूलं पूर्वाषाढाऽर्थनाशिनी ।
सुखदा चोत्तराषाढा श्रवणः सुखवर्धनः ।
धनिष्ठापञ्चकं स्त्रीणां प्रथमर्तौ सुखप्रदम्" इति ।

 रत्नमालायां तु--

"करादिपञ्चोत्तरमूलपूषविष्णुत्रयाश्वीज्यविधीन्दुभेषु ।
आद्यं रजः सौख्ययुतायुरर्थं सौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ।
पूर्वात्रये याम्यभुजंगधिष्ण्ये वैधव्यमस्या विदधीत नूनम् ।
मघेशयोः शोकमथादितेर्भे वन्ध्या तथैन्द्रेऽप्यनले दरिद्रिणी" इत्युक्तम् ।