पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५०
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( मासपक्षतिथिफलानि )
 

आषाढे त्वनपत्या स्याच्छ्रावणे धनिनी भवेत् ।
भाद्रे तु दुर्भगा क्लीबा ह्याश्विने च तपस्विनी ॥
कार्तिके विधवा बाला मार्गशीर्षे बहुप्रजा ।
पौषे स्यात्पुंश्चली नारी माघे पुत्रसुखान्विता ॥
फाल्गुने सुखसंपन्ना प्रथमर्तौ फलं स्मृतम्" इति ।

 पक्षफलं स्मृतिचन्द्रिकायाम्--

"शुक्लपक्षे सुशीला स्यात्कृष्णे सा कुलटा भवेत् ।
कृष्णस्य दशमी यावन्मध्यमं फलमादिशेत् ॥
एकादश्यादिषु फलमधमं परिकीर्तितम्" इति ।

 तिथिफलमपि तत्रैव--

"वैधव्यदा हि प्रतिपद्द्वितीया पुत्रवर्धिनी ।
सौभाग्यदा तृतीया च चतुर्थी सुखनाशिनी ॥
पञ्चमी सुखदा चैव षष्ठी संततिनाशिनी ।
सप्तमी धननाशाय पुत्रसौभाग्यदाऽष्टमी ॥
नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा ।
एकादश्यर्थनाशाय द्वादशी रतिवर्धिनी ॥
त्रयोदशी तु शुभदा दुर्भगा च चतुर्दशी ।
पौर्णमासी त्वमावास्या दुःखरोगविवर्धिनी" इति ॥

 ज्योतिर्ग्रन्थान्तरे तु--

 "आद्यर्तौ सुभगा नारी प्रतिपत्सु रजस्वला" इति । तथा-- "सप्तमी धनवर्धिनी" इति । तथा--"अष्टम्यां राक्षसी नारी" इति । तथा--"एकादश्यां सु[१]खान्विता । द्वादश्यां दुर्भगा नारी" इति । तथा--"पौर्णमास्यां सुपुत्रिणी" इति प्रतिपदादिद्वादश्यन्ततिथिषु विपरीतफलमुक्तम् ।

 अत्र प्रतिपत्पूर्णिमासमीपस्थैव ग्राह्या । "वैधव्यदा हि प्रतिपत्" इत्यत्र त्वमासमीपस्था प्रतिपद्ग्राह्या । तस्याश्चन्द्रक्षयाविशेषेणामातुल्यत्वात् । सप्तमीनिषेधे कृष्णा ग्राह्या । एवमष्टम्येकादशीद्वादशीष्वपि ज्ञेयम् । पौर्णमासीनिषेधस्तु पौर्णमासीपूर्वार्धपरः[२] । तस्य भद्रारूपत्वात् । विधिस्त्वितरांश इति ज्ञेयम् ।



  1. ख. ग. ङ. च. सुतान्वि ।
  2. ग. ङ. च रः । यदि भद्रा न जायेत दर्शे स्याच्चौरिका ध्रुवमितिवचनात् । वि ।