अग्निहोत्रोद्धरणकालः श्रौतसूत्रे--
"अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय" इति । |
पूर्वसूत्रादुद्धरतीत्यनुकृष्यते । कालद्वयसंबन्धेन नामद्वयमिदम् । प्रधानस्य साङ्गस्य कालात्पूर्वतन एव कालेऽनुदितेऽनस्तमिते चोद्धरणमित्यर्थः । वृक्षानधिकृत्य सूर्यो वर्तते नाधस्तान्नोपरिष्टात्स कालोऽधिवृक्षसूर्यः । तत्र सायमग्निहोत्रार्थमुद्धरणम् । एवमुषसि प्रातरग्निहोत्रार्थम् । सूर्यशब्देन किरणा लक्षणयोच्यन्ते । उदयोत्तरं होमपक्षेऽप्युषस्येवोद्धरणम् । एवं सायमस्तोत्तरं होमपक्षेऽप्यधिवृक्षसूर्य एवेति ज्ञेयम् ।
वैखानसस्तु--
"सायमधिवृक्षसूर्येऽर्धास्तमिते वा प्रातरुषसि प्रागुदयाद्वा" इत्याह । |
कात्यायनस्त्वनस्तमितानुदितयोरित्याह । असंभवे तदपि ग्राह्यम् । एतच्च सूत्रं यः प्रधानस्य कालः सोऽङ्गानामितिपरिभाषाबाधनाय ।
होमकालोऽपि श्रौतसूत्रे--
"प्रथमास्तमिते सायमग्निहोत्रं जुहोति नक्षत्रं दृष्ट्वा प्रदोषे वोषसि प्रातर- |
पूर्वसूत्रेणोद्धरणकाल उक्तस्ततोऽन्यो होमकालोऽनेन दर्शितः । तेन ज्ञायते मध्ये विरामे संध्योपास्तावपि न दोषः । प्रथमास्तमयो नाम सूर्यादर्शनाव्यवहितोत्तरः कालस्तत्र नक्षत्रदर्शने वा घटिकाद्वयात्मकरजनीमुखरूपे प्रदोषे वा सायमग्निहोत्रं जुहोति । त्रिविधोऽपि सायंकाल एव । तथा प्रातःकालोऽपि घटिकाद्वयं पूर्वमुदयात्, उदयाव्यवहितपूर्वकाले वोदिते वेति त्रिधा । तत्र प्रातरग्निहोत्रम् । यदा वाक्पक्षिणां प्रकटा भवेत्तदा प्रातरग्निहोत्रं होतव्यमित्येके शाखिन इति वैजयन्तीकृता व्याख्यातम् । ([१]'अनुदितहोमिभिरर्घ्यं दत्त्वा सूर्योदयात्पूर्वं हुत्वा गायत्री जपितव्या । उदितहोमिभिस्तु जपित्वा होतव्यम् ' इति आचाररत्ने पृथ्वीचन्द्रः ।)
उद्धरणे दुहितृस्नुषयोरपि कर्तृत्वमुक्तं कात्यायनेन--
"दुहित्रा स्नुषया वाऽपि विहारो न विरुध्यते" इति । |
एतच्च होमकर्तुरुद्धरणासंभवे ज्ञेयम् । विहारो विहरणमुद्धरणमिति यावत् ।
उदितादिषु कालेषु होममाह मनुः--
"उदितेऽनुदिते चैव समयाध्युषिते तथा । |
- ↑ धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।