स्मृतिसारेऽपि--
"कुण्डे वा स्थण्डिले वाऽपि तत्तन्नाम्ना हविर्भुजम् । |
हविर्भुजमग्निम् । अलं पर्याप्तम् । अलमित्यत्र होमायेति शेषः । योग्यत्वं च द्वेधा । अरण्यादिजत्वं प्रदीप्तबहुलाङ्गारमयत्वं च ।
तत्राऽऽद्यमुक्तं सिद्धान्तशेखरे--
"उत्तमोऽरणिजन्योऽग्निरुत्तमः सूर्यकान्तजः । |
द्वितीयं स्मृत्यर्थसारे--
"कुण्डे वा स्थण्डिले वाऽपि मध्यदेशे हविर्भुजम् । |
अग्निप्रणयनपात्राण्याहात्रिः--
"सौवर्णं राजतं ताम्रं तदभावे तु मृन्मयम् । |
गोभिलोऽपि--
"पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे । |
तादृशे पिहिते । शरावो मृन्मयपात्रविशेषः ।
यस्तु--
"शरावे भिन्नपात्रे वा कपाले त्वायसेऽपि वा । |
इति स्मृतिसारोक्तो निषेधः स पुराणशरावपरः ।
"तैजसे ताम्रपात्रे वा शरावेऽभिनवे तु वा" |
इति नारदपञ्चरात्रवचनेऽभिनवशरावस्य ग्राह्यत्वोक्तेः । तैजसपदं गोबलीवर्दन्यायेन ताम्रेतरपरम् ।
([१]गोभिलीयपरिशिष्टे--
"कपालैर्भिन्नपात्रैर्वा न त्वामैर्गोमयेन वा । |
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।