पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
[रेखालेखनसाधनानि]
भट्टगोपीनाथदीक्षितविरचिता--
(अवोक्षणलक्षणम्)
 

कृत्वा पद्धत्यन्तरे न लिखितमिति यद्युच्यते तदोल्लेखनमपि न लेखनीयम् । उल्लेखनस्येवावोक्षणोत्सेचनयोरप्येकसूत्रप्रणीतत्वेनोल्लेखनकरणाकरणाधीनत्वेनोल्लेखनं लिखितमवोक्षणादिकं न लिखितमित्यत्र भ्रान्तिरेव मूलं पश्यामः ।

 रेखालेखनसाधनानि ([१]बौधायनगृह्ये--

 "न लोष्टेन न काष्ठेन न शर्करया न नखेन । काष्ठेन वै व्याधितः स्याल्लोष्टेन कुलनाशनम् । शर्करया पुत्रनाशः स्यान्नखेन बन्धुनाशनम् । तस्मात्सुवर्णरजतताम्रशकलेन व्रीहिभिर्यवैर्वा दर्भैरङ्गुष्ठेन च महानाम्न्या चोपसंगृह्य तस्य मध्यमं प्राचीन संततमृजुमुल्लिखेत्" इत्यादि ।

 महानाम्नी, उपकनिष्ठिका । उपसंग्रहणान्तमेवाविरोधादत्रोपयुज्यते । रेखालेखनप्रकारस्तु तिस्रः प्राचीस्तिस्र उदीची रेखाः कृत्वेत्यनेन विरुद्धत्वान्नोपयुज्यते) ।

 गोभिलपरिशिष्टे--

"न नखेन न काष्ठेन नाश्मना मृन्मयेन वा ।
प्रोल्लिखेत्स्थण्डिलं विप्रः सिद्धिकामस्तु यो भवेत् ॥
भवेन्नखेन कुनखी काष्ठेन व्याधिमृच्छति ।
अश्मना धननाशः स्यान्मृन्मयेन कलिर्धुवम् ॥
फलेन सुसमृद्धः स्यात्पुष्पेण श्रियमृच्छति ।
पर्णेन धनलाभः स्याद्दीर्घमायुः कुशेन तु ॥
तस्मात्फलेन पुष्पेण पर्णेनाथ कुशेन वा
ताम्रशल्कयुतेनाऽऽदौ लिखेत्स्थण्डिलमुत्तमम्" इति ।

 अवोक्षणलक्षणं संग्रहे--

"अवाचीनेन हस्तेन कर्तव्यं स्यादवोक्षणम्" इति ।

 गृह्ये--

"अग्निं मथित्वा लौकिकं वाऽऽत्दृत्य न्युष्योपसमादधाति" इति ।

 याज्ञिकात्काष्ठादग्निं मथित्वा श्रोत्रियागाराल्लौकिकं वाऽऽत्दृत्याऽऽयतनमध्ये संस्थाप्य काष्ठान्यभ्याधाय प्रज्वलयतीत्यर्थः ।

 संग्रहे--

"कुण्डे वा स्थण्डिले वाऽलं तत्तन्नाम्ना हविर्भुजम् ।
स्थापयेन्मध्यदेशे तु" इति ।


  1. धनुश्चिह्नान्तर्गतं क ख. पुस्तकयोर्नास्ति ।