पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५९७
संस्काररत्नमाला
( अर्कविवाहप्रयोगः )
 

मान्तं कृत्वाऽर्कविवाहहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं [१]प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे बृहस्पतिम[२]ग्निमग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा । अङ्गहोमे वरुणं द्वाभ्यामित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वा व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् ।

 ततः प्रधानहोमः । सं गोभिरित्यस्याङ्गिरा बृहस्पतिस्त्रिष्टुप् । अर्कविवाहप्रधानाज्यहोमे विनियोगः--

"ॐ सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
जने मित्रो न दंपती अनक्ति बृहस्पते वाजयाशूँरिवाऽऽजौ स्वाहा"।

 बृहस्पतय इदं ।

 यस्मै त्वेत्यस्य वामदेवोऽग्निस्त्रिष्टुप् । अर्कविवाहप्रधानाज्यहोमे विनियोगः--

"ॐ यस्मै त्वा काम कामाय वयं सम्राड्यजामहे ।
तमस्मभ्यं कामं दत्त्वाऽथेदं त्वं घृतं पिब स्वाहा" अग्नय इदं० ।

 व्यस्तसमस्तव्याहृतीनां विश्वामित्रो जमदग्निर्भरद्वाजो भृगुरिति क्रमेण ऋषयः । अग्निर्वायुः सूर्यः प्रजापतिरिति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहतीति क्रमेण च्छन्दांसि । अर्कविवाहप्रधानाज्यहोमे विनियोगः--

 'ॐ भूः स्वाहा' अग्नय इदं० । 'ॐ भुवः स्वाहा' वायव इदं० । 'ॐ स्वः स्वाहा' । सूर्यायेदं । 'ॐ भूर्भुवः स्वः स्वाहा' । प्रजापतय इदं० ।

 ततोऽन्वाधानोत्कीर्तितपक्षानुसारेणाङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः ।

 ततोऽर्कं प्रदक्षिणीकृत्य--

"मया कृतमिदं कर्म स्थावरेषु जरायुणा ।
अर्कापत्यानि नो देहि तत्सर्वं क्षन्तुमर्हसि" ॥

 इति तं संप्रार्थ्य, शं नो वात इति शान्तिं पठित्वा गोयुग्ममाचार्याय दत्त्वेतरेभ्योऽपि विप्रेभ्यो यथाशक्ति दक्षिणां दद्यात् ।

 तत आचार्यः स्थापितकुम्भस्थाभिरद्भिः सार्कं प्रतिग्रहीतारमभिषिञ्चेत् ।

 ततः प्रतिग्रहीता तानि वासांसि त्यक्त्वाऽन्यानि धारयेत् । त्यक्तानि वासांस्याचार्यस्य ।



  1. अत्र क. पुस्तकटिप्पण्याम्--"आश्वलायनानां चक्षुष्यभावः" इति वर्तते ।
  2. च. मग्नि ।