पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( चतुर्थीकर्मप्रयोगः )
 

 "ॐ वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उप  धावामि याऽस्यै निन्दिता तनूस्तामितो नाशय स्वाहा" वायवे प्राय'श्चित्तय इदं० ।'

   "ॐ आदित्य प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम
  उपधावामि याऽस्यै पतिघ्नी तनूस्तामितो नाशय स्वाहा" आदि-
  त्यायप्रायश्चित्तय इदं ।

 एता एव पुनर्युत्क्रमेण--

"ॐ आदित्य प्रा० वायो० अग्ने प्रा०" ।

 पुनः पूर्वानुक्रमेण--

"ॐ अग्ने प्रा० वायो प्रा० आदित्य प्रा०" ।

 नवप्रधानाहुतीनां होमा[१]न्त आज्यबिन्दून्पूर्वासादिते संपातावनयार्थे पात्रे प्रक्षिपेत् । नवाहुतिहोमानन्तरं तत्संपाताज्यं दर्व्या भार्यया मूर्ध्नि जुहोति--

 "ॐ भूर्भगं त्वयि जुहोमि स्वाहा" अग्नय इदं० । "ॐ भुवो यशस्त्वयि जुहोमि स्वाहा" वायव इदं० । "ॐ सुवः श्रियं त्वयि जुहोमि स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवस्त्विषिं त्वयि जुहोमि स्वाहा" प्रजापतय इदं० ।

 इत्याहुतिचतुष्टयं मूर्ध्नि हुत्वेमं म इत्यादि स्विष्टकृदादि वा संस्थाजपान्तं समानम् । नात्र त्रिवृदन्नहोमः ।

 तत आसादितं जलपूर्णं कुम्भमग्नेः समीपे निधायोदकुम्भसहितं तं प्रदक्षिणीकृत्यापरेणाग्निं शयनस्थानं कल्पयित्वा परिश्रित्य तत्र प्राक्शिरस्कामुदक्शिरस्कां वा भार्यां शाययेत् । अत्र वाचनिकमुदक्शिरस्कं शयनम् ।

ततः--

"ॐ अभि त्वा पञ्चशाखेन शिवेनाभिद्विषावता । सहस्रेण यशस्विना ।
हस्तेनाभिमृशामसि सुप्रजास्त्वाय" ।

[ इति ] तस्या योनिं दक्षिणेन हस्तेनाभिमृशति ।

"ॐ सं नाम्नः स हृदयानि सं नाभिः सं त्वचः सं त्वा कामस्य
योक्त्रेण युञ्जान्यविमोचनाय" इति संगमं करोति ।
"ॐ मामनुव्रता भव सहचर्या मया भव । या ते पतिघ्नी तनूर्जारघ्नीं त्वेतां
करोमि शिवा त्वं मह्यमेधि क्षुरपविर्जारेभ्यः" ।

[ इति ] तां पर्यालिङ्गति ।



  1. क. मान्ते होमान्त ।