पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५८५
संस्काररत्नमाला
( देवकोत्थापनं मण्डपोद्वासनं च )
 

"मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी ।
मुखे मे सारघं मधु दत्सु संव[न]नं कृतम् ॥
चाक्रवाक संवननं यन्नदीभ्य उदाहृतम् ।
यद्युक्तो देवगन्धर्वस्तेन संवनिनौ स्वके" ॥

 इति द्वाभ्यां तस्या मुखेन मुखं जुषति(ते) । इदमुपगमनमावश्यकं स्त्रीसंस्कारत्वात् ।

 ततः कर्मणः साङ्गतासिद्ध्यर्थमाचार्याय दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।

 प्राचीनरीत्या प्रयोगे तु--अन्वाधाने व्याहृत्यनन्तरमङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये, अग्निं वरुणं चैक[१]याऽऽज्याहुत्या यक्ष्ये, अग्निं वरुणं चै[२]कयाऽऽज्याहुत्या यक्ष्ये, इत्युक्त्वा प्रधानदेवतोल्लेखः । अनन्तरमयासमग्निमित्यादि । एतदनुसारेण होमः, इत्येतावान्विशेषो द्रष्टव्यः । अन्यत्समानम् ।

इति चतुर्थीकर्म ।

अथ देवकमण्डपोदासनम् ।

 तत्र देवकोत्थापनस्य कालः--

"समे च दिवसे कुर्याद्देवकोत्थापनं बुधः ।
षष्ठं च विषमं नेष्टं मुक्त्वा पञ्चमसप्तमौ" इति ।

 समेषु षष्ठं विषमेषु पञ्चमसप्तमातिरिक्तं दिनं नात्रेष्टमित्यर्थः ।

 दिवससंख्या ज्योतिर्निबन्धे--

"प्रतिष्ठादिनमारभ्य यावत्षोडश वासराः ।
देवकोत्थापनं कार्यमुद्वाहे च व्रते दश" इति ॥

 उद्वाहे षोडशदिनानि, मौञ्जीबन्धे दश दिनानि काल इत्यर्थः । एतेषु दिवसेषु पञ्चमसप्तमातिरिक्तं विषमं दिनं समेषु षष्ठं दिनं च वर्जयित्वाऽवशिष्टेऽन्यतमदिवसे स्थापितदेवतानामुद्वासनं पुण्या[३]हादिवाचनं चोपनयनवत्कुर्यात् ।

 मण्डपविसर्जनं तु विवाहदिनमारभ्य यानि नवत्रिषष्ठदिनानि तानि वर्ज



७४
 
  1. ग. ङ. च. चैकैक ।
  2. ग. च. चैकैक ।
  3. च. ण्याहवा ।