उत्तरत्राग्नये हुत्वेति विधानादाग्नेयत्वं सिद्धं, स्थालीपाकेनेति त्ववहन्ति श्रपयित्वेति विधानात्सिद्धमतः किमर्थमिदमधिकमारभ्यत आग्नेयेन स्थालीपाकेनेति । उच्यते--आग्नेय एवात्र प्रधानदेवता नाग्निः स्विष्टकृदितिख्यापनार्थम् । तेन प्रथमदेवताहोमानन्तरं हविर्दोषे स्विष्टकृद्रूपद्वितीयदेवतार्थं न हविरुत्पत्तिः किं त्वाज्येनैव होम इति सिध्यति । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभिराहुतिभिर्जुहोति प्रधानावदानतो ज्यायोऽवदानमित्येते धर्माश्च सिद्धा भवन्ति ।
स्थालीपाकेनेति वचनं सूत्रान्तरेऽग्निदेवतोद्देशेनास्मिन्स्थालीपा[१]कयागकर्मण्याज्येनापि होम उक्तः स मा भूदित्येतदर्थम् ।
अथवा स्थालीपाकेनेत्येव विधायकं श्रपयित्वेति तु श्रपणाभिधारणयोरव्यवधानायानुवादः । तेन सुशृतावस्थातः पूर्वमेव पवित्रप्रहरणान्तं कर्मेति सिध्यति ।
चरुणेत्येतावतैव सिद्धे स्थालीपाकेनेति वचनं यत्र स्थालीपाकशब्देन विधानं तत्रैवाऽऽपूर्विकतन्त्रविधिरितिज्ञापनार्थम् । तेनान्यत्रार्थादाघारवत्तन्त्रं सिध्यति । प्रायश्चित्तेष्टिस्थानीयचरुहोमे त्वापूर्विकतन्त्रमेव । तत्रापि य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेः स्थालीपाका इति शास्त्रान्तरेऽपि स्थालीपाकशब्देन विधानात् ।
अथवा स्थालीपाकेनैव यत्र होमो न द्रव्यान्तरेणापि तत्रैवाऽऽपूर्विकतन्त्रविधिरितिज्ञापनार्थम् । तेन चरुशब्देन विहिते केवलचरुहोमेऽप्यापूर्विकं तन्त्रमेव भवति ।
हुधातुं परित्यज्य यजिधातोः प्रयोगो यावदुपयुक्तश्रौतधर्मप्राप्त्यर्थः । तेन निर्वापादीनां कृष्णाजिनावधूननादीनामवहननधर्माणां प्राप्तिः सिद्धा भवति ।
अथवा यजिधातोः प्रयोगो यक्ष्य इत्येवंरूपागूरणमात्रप्राप्त्यर्थः ।
पत्न्यवहन्ति स्थालीपाकार्थान्व्रीहीन् । साऽवहन्तीति वक्तव्ये पत्न्यवहन्तीति वचनं पत्न्येव कृष्णाजिनावधूननादितण्डुलप्रक्षालननिनयनान्तं करोति न तु श्रौतवत्त्रिष्फलीकरणमात्रावघातमित्येतदर्थम् । श्रपणादिकं तु वरकर्तृकमेव न तु पत्नीकर्तृकम् । एतदर्थमेव पत्न्यवहत्येति ल्यप्प्रत्ययं परित्यज्य
पत्न्यवहन्तीति प्रयोगः कृतः।
- ↑ ग. च. पाके या ।