ततः कृष्णाजिनावधूननादितण्डुलक्षालनान्तं पत्नी ।
ततः श्रपणादित्यागदानव[१]र्जं समाप्त्यन्तं कर्म वरः कुर्यात् । त्यागदाने पत्नी कुर्यात् ।
इति पत्न्या मुख्यकर्तृत्वपक्षे प्रयोगः ।
अथवा पात्रासादनान्ते कृष्णाजिनमास्ती[२]र्यानास्तीर्य वा पत्न्यवहननं कृत्वा त्रिष्फलीकृत्य फलीकरणान्युत्तरतो निरस्येत् ।
ततो वरो दर्वीसंमार्गादिपवित्राभ्याधानान्तं दर्भास्तरणपक्षे तदन्तं कृत्वा शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चाद्दर्भेषु दर्भास्तरणाभावपक्षे भूमावेव निधाय परिषेकादि समानम् ।
ततः पतिपुत्रवतीभिः सुवासिनीभिः कृतनीराजनौ दंपती द्विजेभ्य आशिषो गृहीत्वा मुदितौ तिष्ठेताम् ।
ततो महालक्ष्मीपूजनादिकमाचारप्राप्तं यद्यदस्ति तत्सर्वं पुरन्ध्रीभिः कारणीयम् ।
इति गृहप्रवेशस्थालीपाकप्रयोगः ।
अथैतद्विषयकं सूत्रं व्याख्यायते ।
तत्र सूत्रमित्थम्--
"अथैनामाग्नेयेन स्थालीपाकेन याजयति पत्न्यवहन्ति श्रपयि- |
अथेति प्रवेशानन्तरं पूर्वरात्रावेव क्रिया स्यादर्धरात्रोत्तरं मा भूदित्येतदर्थम्, यत्र दिगाद्युपस्थानानन्तरमाग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति नान्येषु स्थालीपाकेष्वित्येतदर्थं च । याजयतीत्येतदनन्तरं वर इति शेषः ।
अथवैनां याजयतीति वचनादेवं ज्ञायते पत्न्येव यष्ट्री वरस्तु ऋत्विग्भूत इति । तेन त्यागदाने स्त्रीकर्तृके एव । अत एवास्येतीदमः प्रयोगः संगच्छते । न च तस्या भर्तृधनदानेऽधिकाराभावात्कथमेतदिति वाच्यम् । अनुज्ञया दानेऽप्यधिकारस्य सर्वतन्त्रसिद्धत्वात् । नन्वेनां याजयतीत्येव वक्तव्यं यत