पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५५३
संस्काररत्नमाला
( कन्यादानप्रयोगः )
 

दशवर्षकमिति च । गौरीपदलोपः पूर्ववदत्रापि । अत्र वर्षं जन्म[१] त एव । ततो धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयमिति श्रावयेत् । ततो वरो वाक्यार्थमङ्गी कुर्यान्नातिचरामीति ।

 ततो दाता कृतस्य कन्यादानकर्मणः साङ्गतासिद्ध्यर्थं यथाविभवकल्पितमिदमग्निदैवत्यं हिरण्यं दक्षिणात्वेन तुभ्यमहं संप्रदद इति वरहस्ते दत्त्वा न ममेति वदेत् । वरस्तु सप्तदशकृत्वोऽपान्य,

 देवस्य त्वेत्यस्य प्रजापतिः सविता यजुः । हिरण्यप्रतिग्रहे विनियोगः ।'ॐ देवस्य त्वा सवितुः० णेऽग्नये हिरण्यं ते० तु'  इति प्रतिगृह्णीयात् । यज्ञियदक्षिणाप्रतिग्रह एव सावित्रमन्त्रो नान्यत्रेत्येतत्कल्पे तु न सप्तदशकृत्वोऽपाननं तत्र प्रतिगृह्णामीत्येव प्रतिग्रहः ।

 ततो दाता जलपात्रभोजनपात्रगोमहिष्यश्वगजदासीदासभूशय्यालंकारादि यथाविभवं संकल्पपूर्वकं वराय दद्यात् ।

 तत्र दानमन्त्राः--

"परापवादपैशून्यादभक्ष्यस्य च भक्षणात् ।
उत्पन्नं पापं दानेन ताम्रपात्रस्य नश्यतु"

 इति ताम्रपात्रस्य जलपानार्थस्य ।

"यानि कानि च पापानि कामोत्थानि कृतानि तु ।
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा"।

 इति कांस्यपात्रस्य भोजनाद्यर्थस्य ।

"अगम्यागमनं चैव परदाराभिमर्शनम् ।
रौप्यपात्रप्रदानेन तानि नश्यन्तु मे सदा" ।

 इति रौप्यपात्रस्य जलपानार्थस्य भोजनार्थस्य च ।

"जन्मान्तरसहस्रेषु यत्कृतं पातकं मया ।
स्वर्णपात्रप्रदानेन तानि नश्यन्तु मे सदा" इति स्वर्णपात्रस्य ।
"यज्ञसाधनभूताया विश्वस्याघौघनाशिनी ।
विश्वरूपधरो देवः प्रीयतामनया गवा" इति गोः ।
"इन्द्रादिलोकपालानां या राज्यमहिषी प्रिया ।
महिषासुरस्य जननी साऽस्तु मे सर्वकामदा" इति महिष्याः ।



७०
 
  1. ग. न्मतो गर्भतो वाऽपि । त । ङ. न्मतो गर्भतोऽपि वा । त ।