पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५४
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( कन्यादानप्रयोगः )
 

"महार्णवसमुत्पन्न उच्चैःश्रवस पुत्रक ।
सोपस्करस्त्वं विप्राय दत्तः शान्तिं प्रयच्छ मे" ।

 इति खलीनाद्युपस्करसहिताश्वस्य ।

"सुप्रतीक गजेन्द्र त्वं सरस्वत्याऽभिषेचितम् ।
इन्द्रस्य वाहनं शश्वत्सर्वदेवैः सुपूजितम् ।
विप्र तुभ्यं ददामीमं तेन शान्तिं प्रयच्छ मे" इति गजस्य ।
"इयं दासी मया तुभ्यं श्रीवत्स प्रतिपादिता ।
सदा कर्मकरी हृद्या येथेष्टं भद्रमस्तु मे" इति दास्याः ।
"अयं दासो मया तुभ्यं श्रीवत्स प्रतिपादितः ।
सदा कर्मकरो हृद्यो मम शान्तिं प्रयच्छतु" इति दासस्य ।
"सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता ।
अनन्तसस्यफलदा मम शान्तिं प्रयच्छतु" इति भूमेः ॥
"अनूनं शयनं नित्यमनूनां श्रियमुन्नतिम् ।
सौभाग्यं देहि मे नित्यं शय्यादानेन केशव" ॥

 इति सोपस्करायाः शय्यायाः ।

"सौवर्णं हस्तवलयं रूपकान्तिसुखप्रदम् ।
विभूषणं प्रदास्यामि विभूषयतु मां सदा" ॥

 इति वलयादिभूषणानाम् ।

"हिरण्यगर्भसंभूतं सौवर्णं चाङ्गुलीयकम् ।
सर्वप्रदं प्रयच्छामि प्रीतोऽस्तु कमलापतिः" इत्यङ्गुलीयकस्य ।
"क्षीरोदमथनोद्भूतं शुभदं कुण्डलद्वयम् ।
श्रिया सह समद्भूतं ददे श्रीः प्रीयतां मम" इति कुण्डलयोः ॥
"हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदं मम शान्तिं प्रयच्छतु" इति हिरण्यस्य ॥
"असुरेषु समुद्भूतं रजतं पितृवल्लभम् ।
तस्मादस्य प्रदानेन रुद्रः संप्रीयतां मम" इति रजतस्य ।

अथैतेषां प्रतिग्रहमन्त्राः ।

 'ॐ देवस्य त्वा स० णे रुद्राय गां तया०' इति गोः । तृणं प्रदाय प्रतिग्रहः । 'ॐ देवस्य त्वा० णे प्रजापतये महिषीं तया०' इति महिष्याः । यमाय महिषीमिति वा । ॐ देवस्य त्वा णे वरुणायाश्वण् तेना० णे वरुणायाश्वं तेना०' इत्यश्वस्य । तृणं प्रदाय प्रतिग्रहः ।