ततः पुरन्ध्रीभिर्नीराजनादिमाङ्गलिकं कार्यम् । विप्राश्च गन्धताम्बूलादिभिः पूजिता आशीर्मन्त्रान्पठेयुः । ते च--ॐ समिद्धस्य श्रय० महते सौभगाय । ॐ वनस्पते शतवल्शो० य महते सौभगाय २ ॐ संदिव्ये नदी०ष्ट महते सौभगाय ३ ॐ नर्य प्रजां मे० ष्ठिताम् । ॐ तदस्तु मित्रा० सादनाय । ॐ गृहा वै प्रतिष्ठा सूक्तं तत्प्रति०" इति च पठेत् ।
इति वाग्दानप्रयोगः ।
अथ वरस्य वधूगृहं प्रति गमनम् ।
तद्विधिः शौनकेनोक्तः--
"पुण्ये मुहूर्ते कुर्वीत विवाहं विधिवद्द्विजः । |
तस्य वधूगृहस्य ।
गृहीतपूर्णकुम्भादिपाणिभिर्वनिताजनैः । |
आभ्युदयिकं श्राद्धं कुर्यात् । स्वस्ति वाचयेदित्यत्रान्तर्भावितो णिज्ज्ञेयः । अन्यथा नान्दीश्राद्धं पिता कुर्यादित्यनेन विरोधापत्तेः ।
नान्दीश्राद्धं पिता कुर्यादित्यत्र नान्दीश्राद्धग्रहणं स्वस्तिवाचनादेरुपलक्षणम् । तथैव शिष्टसमाचारात् । नान्दीश्राद्धमात्रं पितृकर्तृकं स्वस्तिवाचनं तु वरकर्तृकमेवेत्यस्मिन्मत आभ्युदयिकं श्राद्धं कुर्यादित्येकत्रैव णिज्ज्ञेयः । कृतपुण्याहवाचन इतिवचनाद्वधूगृहगमनकाले वरेण पञ्चवाक्यैः पुण्याहवाचनं कार्यमिति केचित् । अनुवादोऽयमित्यन्ये ।
इति वरस्य वधूगृहं प्रति गमनम् ।