पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५००
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( कन्यादातृनिर्णयः )
 

न्याया उपवासत्रयान्ते गव्यपयःपानपूर्वकं गोदानं विधीयते । अदृष्टरजसे कुमार्यै सरत्नभूषणदानेन विवाहयोग्यतोच्यते । तामुद्वहन्नित्यनेन वरस्य कुश्माण्डहोमेन तदुद्वाहयोग्यता प्रतिपाद्यते ।

 कन्यया गोदानोत्तरं पादकृच्छ्रमपि कर्तव्यम् ।

"कन्यका तु विवाहात्प्राग्रजसा चेत्परिप्लुता ।
पादकृच्छ्रेण शुद्धा स्यात्पाणिग्रहणकर्मणि" ॥

 इति हेमाद्रौ स्मृत्यन्तरोक्तेः ।

 बौधायनस्तु--

"अथ यदि कन्योपसाद्यमाना वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते--पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयत्वियमित्यथ द्वादशरात्रमलंकृत्य प्राशयेत्पञ्चगव्यं ततः शुद्धा भवति" इत्याह ।

 उपसाद्यमाना दात्रा दीयमाना । उह्यमाना वरेण पाणिग्रहणेन । वाशब्दद्वयमुभयोः प्राधान्यं द्योतयितुम् ।

 तस्या उपसाद्यमानाया उह्यमानाया वा पतने स एवाऽऽह--

"अथ यदि कन्योपसाद्यमाना वोह्यमाना वा पतेत्तामुत्थापयेदुद-
स्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय
वरुणाय च" इति ।

 होमकाले रजोदर्शने तु यज्ञपार्श्वः--

"विवाहे वितते तन्त्रे होमकाल उपस्थिते ।
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ॥
स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि ।
युञ्जानामाहुतिं हुत्वा ततस्तन्त्रं प्रवर्तयेत्" इति ॥

 युञ्जानः प्रथमं मन इत्येकेनर्ज्मन्त्रेण साध्याऽऽहुतिर्युञ्जानाहुतिस्तां हुत्वेत्यर्थः ।

 यदा तु दात्रभावेन रजोदर्शनं तदा विशेषमाह बौधायनः--

"त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम् ।
ततश्चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥
अविद्यमाने सदृशे गुणहीनमपि श्रयेत्" इति ।