पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४७५
संस्काररत्नमाला
( विवाहे कालनिर्णयः )
 

 देशभेदेन विवाहादिषु होलिकाष्टदिनवर्जनमप्युक्तं ज्योतिर्निबन्धे--

"इरावत्या विपाशायाः शतद्वास्तीरभूमिषु ।
तथा त्रिपुष्करे देशे विवाहादिषु वर्जयेत् ।
होलिकाप्राग्दिनान्यष्टौ शुभार्थं मतिमाञ्जनः" इति ।

 इरावत्यादिनद्यश्च पश्चिमदेशे प्रसिद्धाः । होलिका फाल्गुनपूर्णिमा, ततः प्राग्दिनाष्टकं वर्जयेदित्यर्थः ।

 तथाऽर्वाचीनग्रन्थस्थं पद्यमपि--

"विपाशेरावतीतीरे शतद्र्वाश्च त्रिपुष्करे ।
विवाहादि शुभं नेष्टं होलिकाप्राग्दिनाष्टकम्" इति ।

 ज्योतिर्निबन्धे--

" चूडाव्रतविवाहादि गृहारम्भप्रवेशनम् ।
जनार्दने प्रसुप्ते तु न प्रकुर्वीत सर्वथा" इति ॥

([१]कालामृतसंग्रहे--

अब्देषु क्षयवत्सरो न शुभकृत्पक्षोऽब्दसंधौ तथा
पञ्चाहानि तु मासयोर्दिवसयोर्नक्षत्रयोर्योगयोः ॥
यामार्धं घटिकाद्वयं करणयोर्लग्नद्वये नाडिके
संध्यायां घटिकात्रयं तु घटिके त्याज्ये तु संधौ निशः ॥)

 सर्वत्रामृतसिद्धियोगस्य ग्राह्यतायां विवाहादिषु कस्यचिन्निषेध उक्तो ज्योतिर्निबन्धे--

"विवाहे गुरुपुष्यौ च प्रयाणे शनिरोहिणी ।
भौमाश्विन्यौ प्रवेशे च षण्मासान्मरणं ध्रुवम्" इति ॥

 ज्योतिष्प्रकाशे--

"अर्वाक्षोडश नाड्यः संक्रान्तेः पुण्यदाः परतः ।
उपनयनव्रतयात्रापरिणयनादौ विवर्ज्यास्ताः" इति ॥

 अत्र व्रतशब्देन वेदव्रतम् । आदिशब्देन सर्वं शुभकर्म गृह्यते ।

 नारदः--

"भू१बाण५नव९हस्ता२श्च रस६दिख१०ह्नि३पर्वताः७ ।
वेदा४ वसु८शिवा११दित्या१२ घातचन्द्रो यथाक्रमम् ॥
यात्रायां युद्धकार्येषु घातचन्द्रं विवर्जयेत् ।
विवाहे सर्वमाङ्गल्ये चौलादौ व्रतबन्धने ॥
घातचन्द्रो नैव चिन्त्य इति पाराशरोऽब्रवीत्" इति ।



  1. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तक एव ।