पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७४
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे कालनिर्णयः )
 

 तथा च राजमार्तण्डः--

"उक्तानि प्रतिषिद्धानि पुनः संभावितानि च ।
सापेक्षनिरपेक्षाणि मीमांस्यानीह कोविदैः" इति ।

 अस्यार्थः--उक्तानि सामान्यविधिना तत्काले कर्तव्यत्वेन प्रतिपादितानि तान्येव कर्माणि विशेषतो निषेधविधिना कालेयत्तादिना निषिद्धानि । अथ पुनरपि तान्येव तत्कालन्यूनकालेयत्तादिना संभावितानि कर्तव्यत्वेन प्रदिपादितानि । सापेक्षेत्यादि । सापेक्षाणि निरपेक्षाणि कालान्तरापेक्षाविशिष्टानि कालान्तरापेक्षाशून्यानीत्यर्थः । अपेक्षा चात्र कालान्तरकर्तव्ययोग्यतानिश्चयः । सोऽपि स्वसामर्थ्याधीनः । सामर्थ्यमप्यत्र कालान्तरतत्तत्क[१]र्मौ[२] पयोगिकसामग्रीसमवधानकर्तृयोग्यताबलवद्विघ्नोपस्थित्यभावयोरन्यतररूपं पर्यवसन्नम् । मीमांस्यानि विचारणीयानि, कालान्तरकर्तव्यत्वयोग्यतानिश्चयविषयत्वरूपसापेक्षत्वेन तादृशाभावरूपनिरपेक्षत्वेन च विचारणीयानीति यावत् । तथा च यदि कर्तव्यकर्मणां सापेक्षत्वेन ज्ञानं तदाऽधिकविषयनिषिद्धेतरस्मिन्दिने तेषामनुष्ठानं, यदि च निरपेक्षत्वेन ज्ञानं तदा स्वल्पविषयनिषिद्धेतरस्मिन् । अथ च व्यापकनिषिद्धमध्येऽनुष्ठानं कर्तव्यमिति तात्पर्यार्थः ।

 तथाहि--

"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे
 [३]चौलकर्मोपनयनगोदानविवाहाः ।

 इत्याद्याश्वलायनगृह्याद्युक्तोपनयनादिकर्मणां यथाविधिविहितोत्तरायणे क्वचिदपि दिवसे त्रिविधोत्पाताद्यन्यतमत्वेऽपि तथाविधसामान्यतः प्राप्तौ पूर्वोक्तेन "अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने" इत्यादिना वचनेन तत्तत्कर्मणां सप्तदिनपर्यन्तं निषेधमुक्त्वा पुनः "एकरात्रं परित्यज्य" इत्यादिवाक्यान्तरेण मुनिना विवाहोपनयनयोरेकरात्रत्रिरात्रनिषेधमुखेनैकरात्राद्यतिरिक्तदिनानां सप्ताहाभ्यन्तरवर्तिनामप्यभ्यनुज्ञानं कृतं सापेक्षत्वनिरपेक्षत्वविचारेणैवेति । एवमन्यत्राप्यूह्यमिति दिक् ।

 अद्भुतसागर एतदपवादः--

"अथ दिवसत्रयमध्ये मृदु पानीयं यदा भवति ।
उत्पातदोषशमनं तदैव शं प्राहुरा[चा]र्याः" इति ।

 संबन्धतत्त्वे--

"भूकम्पादेर्न दोषोऽस्ति वृद्धिश्राद्धे कृते सति" इति ।



  1. क. ड. त्कमौपयौगि ।
  2. ख. र्मौपयिक ।
  3. क. च्चौलोप ।