पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४६९
संस्काररत्नमाला
( विवाहे कालनिर्णयः )
 

अतिचारगते जीवे वक्रे चैव बृहस्पतौ ।
कामिनी विधवा प्रोक्ता तस्मात्तौ परिवर्जयेत्" इति ॥

 तत्रैव--

"अतिचारगतो जीवः पूर्वभं नैव गच्छति ।
समचारेऽपि कर्माणि नैव तत्रैव संस्थिते" इति ॥

 तथा--

"अतिचारगतो जीवस्तं राशिं नैति चेद्यदि ।
लुप्तः संवत्सरो ज्ञेयो गर्हितः सर्वकर्मसु" इति ॥

 पूर्वराशिशेषमतिक्रम्य राश्यन्तरसंचारोऽतिचारस्तं प्राप्तो गुरुः पुनस्तं राशिं यदि नैति तदा लुप्तः संवत्सरः सर्वकर्मसु गर्हितो ज्ञेय इत्यर्थः ।

 अस्य सर्वराशिसाधारण्येन प्राप्तौ क्वचिदपवादमाह च्यवनः--

"यदि भवेदतिचारगतो गुरुर्न पुनरेति निजप्रथमस्थितिम् ।
भवति लुप्तसमा झषकुम्भयोर्वृषभवृश्चिकयोर्यदि न स्थितः" इति ।

 मदनरत्नेऽपि--

"यदाऽतिचारं हि गुरुः करोति कुम्भालिसंस्थो वृषमीनसंस्थः ।
नाऽऽयात्यसौ यद्यपि पूर्वराशिं शुभाय पाणिग्रहणं वसिष्ठः" इति ।

 दशमासभोगानन्तरमेकादशमासभोगानन्तरं वेतरेष्वप्यतिचारे लुप्ताब्ददोषो नास्ति ।

 तदुक्तं च्यवनेन--

"मासान्दशैकादश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः ।
भुङ्क्ते न पूर्वं च पुनस्तथाऽपि न लुप्तसंवत्सरमाहुरार्याः" इति ॥

 अयं च लुप्ताब्ददोषो देशभेदेनैवात्रिमतेन ।

 तथा च स्मृतिसंग्रहे--

"लुप्ताब्ददोषोऽत्रिमतेन मध्ये सोमोद्भवायाः सुरनिम्नगायाः" इति ।

 सोमोद्भवा नर्मदा । सुरनिम्नगा गङ्गा ।

 वक्रातिचारयोरपवादमाह राजमार्तण्डः--

"वक्रातिचारगे जीवे वर्जयेत्तदनन्तरम् ।
व्रतोद्वाहादिचूडायामष्टाविंशतिवासरान्" इति ॥

 वक्रातिचारयोरष्टाविंशतिवासरवर्जनमत्यन्तसंकटविषयकं बोध्यम् ।

 "प्राग्राशिगतजीवस्य चातिचारस्त्त्रिपक्षकः" इत्यनेन गुरोस्तादृशातिचारे पक्षत्रयपर्यन्तमेव तत्कर्मवर्जनस्योक्तत्वात् ।