पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहकालनिर्णयः )
 

 कूलं तीरम् । इज्यो गुरुः ।

 एवं मेषस्थे सूर्ये सिंहस्थगुरुदोषो नास्तीति दाक्षिणात्यसंग्रहे ज्योतिर्निबन्धे पठन्ति--

"मङ्गलानीह कुर्वन्ति सिंहस्थो वाक्पतिर्यदा ।
भानौ मेषगते सम्यगित्याहुः शौनकादयः" इति ॥

 तथा नारदेन देशभेदेन समसप्तकदोषोऽपि विवाह उक्तः--

"समदृष्टिगुरोः शुक्रस्तन्मासे तु प्रयत्नतः ।
विवाहादि न कुर्वीत नर्मदातीर उत्तरे" इति ॥

 शौनकः--

"एकराशिगतौ सूर्यजीवौ स्यातां यदा पुनः ।
व्रतबन्धविवाहादि शुभकर्माखिलं त्यजेत्" इति ॥

 एतच्चैकनक्षत्रावच्छेदेनैकराशिगतत्वे बोध्यम् ।

"एकराशिगतौ स्यातामेकर्क्षविषये यदि ।
गुर्वादित्यौ तदा त्याज्या यज्ञोद्वाहादिकाः क्रियाः"

 इतिवचनैकवाक्यत्वात् ।

 अत एव--"गुर्वादित्ये दशाहे तु व्रतोद्वाहादि वर्जयेत्"

 इत्यनेन यत्कर्मवर्जनमुक्तं तद्भिन्ननक्षत्रविषयं बोध्यमिति । यदि चैकर्क्षघटितविशेषवचनसहकारेण मुन्यन्तरोक्तसामान्यवचनस्याप्येकस्यैव निषेधविधेः कल्पनालाघवात्तदेकवाक्यत्वानुरोधेन विशेषविधिपरत्वं कल्प्यते तदा विभिन्ननक्षत्रविषये तयोरेकराशिस्थत्वं बोध्यमिति नवीनाः ।

 वात्स्यः--

"गुरुभार्गवयोर्मौढ्ये बाल्ये वै वार्धकेऽपि च ।
व्रतोद्वाहप्रतिष्ठादि शुभं कर्म विवर्जयेत्" इति ॥

 [१]ज्योतिर्वसिष्ठः--

"यात्रोद्वाहौ प्रतिष्ठां च गृहचूडाव्रतादिकम् ।
वर्जयेद्यत्नतश्चैव जीवे वक्रातिचारगे" इति ॥

 कृत्यचिन्तामणौ--

"तथा मलिम्लुचे मासि सुराचार्येऽतिचारगे ।
वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत् ॥



  1. अत्र क. पुस्तके टिप्पण्याम् "बृहस्पतिस्तु–- यद्येकस्यापि मूढत्वे शुभकर्म न दोषकृत् । द्वयोर्मूढत्व एवोक्तं दोषद गुरुशुक्रयोः । द्विजन्मादिशुभे कार्ये शुक्रमौढ्य न दोषकृत् । त्रैवर्णिकानामेवोक्तं दोषद गुरुशुक्रयोः" इति ग्रन्थो वर्तते ।