द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमित्याह । तत्र युक्तं ग्राह्यम् । न चेदानींतनसूत्रपुस्तक एतत्सूत्रस्यैवादर्शनात्कथमेतस्य सत्याषाढीयत्वमिति वाच्यम् । अतिप्रामाणिकेन मीमांसाभाष्यकृता शबरस्वामिना सत्याषीढयत्वेन धृत्वैव व्याख्यातत्वेनैतदनुरोधेनेदानींतनसूत्रपुस्तक एतत्सूत्रस्योच्छिन्नताया एव कल्पनात् । संक[१]र्षकाण्डमुच्छिन्नमित्यभियुक्तप्रवादोऽप्यस्ति । द्विगोत्रस्य जनकपितृगोत्रवर्जनाव[२]धेः क्वचिदपीदानीमनुपलम्भाद्यावद्विज्ञानं वर्जनम् ।
इति दत्तकगोत्रनिर्णयः ।
अथ दत्तकसापिण्ड्यनिर्णयः ।
गौतमः--" ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो वीजिनश्च मातृबन्धभ्यः पञ्चम्याः" इति ।
- उक्तं च--" वसु[३]देवाङ्गजाता च कौन्तेयस्य विरुध्यते" ।
इतिवार्तिकव्याख्यानावसरे न्यायसुधाकृता दत्तकविषयमेतदित्यङ्गीकृत्य कुन्त्या जनककुले साप्तपुरुषं सापिण्ड्यमिति । व्याख्यातं तद्विषयत्वेनैव सापिण्ड्यमीमांसायाम् । अतः कुलद्वयेऽपि साप्तपुरुषसापिण्ड्यं प्रतीयते । पैठीनसिस्तु-- "त्रीन्मातृतः पञ्च पितृतः पुरुषानतीत्योद्वहेत्" इत्याह । व्याख्यातमेतदपरार्के-- दत्तकादिपुत्रान्पितृपक्षतो निवृत्तपिण्डगोत्रार्षेयान्प्रत्येतदुच्यते पञ्च पितृत इतीति । अतश्च प्रतिग्रहीतृपितृकुले साप्तपुरुषं सापिण्ड्यं प्रतीयते । प्रतिग्रहीतृमातापितृकुलयोस्त्रिपुरुषं सापिण्ड्यमिति प्राञ्चः ।
अत्र व्यवस्थोक्ता सापिण्ड्यदीपिकायाम् -- दत्तक्रीतादीनां जनकगोत्रेणोपनयने कृते जनककुले साप्तपुरुषं सापिण्ड्यम् । प्रतिग्रहीतृमातापितृकुले निर्वाप्यपिण्डलक्षणं त्रिपुरुषं सापिण्ड्यम् । प्रतिग्रहीतृगोत्रेणोपनयने तत्कुले साप्तपुरुषमिति ।
उपनयनमात्रे कृते पाञ्चपुरुषम् । जातकर्माद्युपनयनान्ते कृते साप्तपुरुषमिति पैठीनसिवचःसाफल्याय व्याख्येयम् ।
न केवलं दत्तकस्य परिणयनार्थमेवैष सापिण्ड्योपन्यासः, किंतु तत्संततेस्तत्पित्रादिकुलोत्पन्नैः सह संबन्धसंभवनिर्णयार्थमपि । अन्यथा पार्थसुभद्रयारदत्तयोः संबन्धासंभवशङ्काया आचायकर्तृकोपन्यासस्य तदुपपत्त्ये सुधाया गौतमीयोपन्यासस्यालग्नकतापत्तेः ।