न देवैः प्रजापत्यादिभिरार्षेयं वृणीते न वा मनुष्यैर्विद्वद्भिर्देवदत्तादिभिरार्षेयं वृणीते किंतु ऋषिभिर्वसिष्ठादिभिर्मन्त्रदृग्भिरेवाऽऽर्षेयं वृणीत इति विज्ञायते श्रुतिरिति शेषः ।
आर्षेयोच्चारणकर्तव्यताविषये श्रुतिं दर्शयति--
"आर्षेयमन्वाचष्ट ऋषिणा हि |
आर्षेयमन्वाचष्टे । कस्मात् । ऋषिणा पूर्वजेन कीर्तितेन देवप्रसिद्धेन तदपत्यं पुरुषं देवा अनुबुध्यन्ते भोज्यान्नोऽयं तदपत्यत्वादिति जानन्ति हीत्यर्थः ।
स्वस्याऽऽर्षेयवरणं परित्यज्यान्यस्याऽऽर्षेयवरणे दोष इत्येतदर्थे श्रुतिं दर्शयति--
"यो वा अन्यः सन्नन्यस्याऽऽर्षेयं वृणीते स वा |
यो वै यजमानोऽन्यगोत्रः सन्नन्यगोत्रस्याऽऽर्षेयेण प्रवृणीते स वै स एव ऋषिरस्य यजमानस्य तदिष्टं यागफलं वीतं ब्राह्मणतर्पणादिफलं वृङ्के गृह्णातीत्यर्थः ।
आर्षेयसंख्यानियमार्थिकां चतुर्वरणपञ्चातिप्रवरणनिषेधिकां च श्रुतिं दर्शयति--
"एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो |
एकमार्षेयं वृणीते, एकमृषिं संकीर्त्य तदपत्यमग्निं वृणीते । तथा द्वौ वृणीते त्रीन्वृणीत इत्यत्रापि । चतुरो न वृणीते पञ्चातीत्य षडादीन्न वृणीत इत्यर्थः । आत्मीयानामृषीणां बहूनामनियमेन वरणप्राप्तौ सत्यामेकं वृणीत इत्यादयः संख्यानियमविधयः । न चतुरो वृणीते न पञ्चाति प्रवृणीत इत्येतद्व्यामुष्यायणविषयम् । द्व्यामुष्यायणस्य गोत्रद्वयस्यापि द्व्यार्षेये चतुर्णां वरणप्रसक्तिः । त्र्यार्षेयत्वे तु षण्णां पञ्चार्षेयत्वे द्व्यार्षेयादिसंनिपाते सप्तादीनामपि वरणप्रसक्तिः ।
तन्निषेधार्थमुक्तं--'न चतुरो वृणीते न पञ्चाति प्रवृणीते' इति । 'त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षि मन्त्रकृतो वृणीते' इति श्रुतिमनुसृत्य प्रवृत्ते 'अत्र्यार्षेयस्य