गोत्रमिति । एवं च यत्राभियुक्तानां गोत्रत्वप्रसिद्धिस्तद्गोत्रमित्येव निर्दुष्टं गोत्रलक्षणं मन्त्रत्वादिवत्सिद्धं भवति । एतेन वसिष्ठादीनां गोत्रत्वानुपपत्तिः, अस्मदादीनां परम्परया तदपत्यत्वेन गोत्रत्वापत्तिश्च परिहृता भवति । यानधिकृत्य प्रवरा आम्नातास्तादृशा गणा ऊनपञ्चाशत् ।
तथा च बौधायन:--
"गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । |
अथ प्रवराः ।
तत्र प्रवरसूत्रस्य प्राचीनव्याख्यानानुपलम्भात्तद्व्याख्यानसहितं प्रवरसूत्रं प्रदर्श्यते । तत्र प्रतिज्ञासूत्रमिदं--'प्रवरान्व्याख्यास्यामः' इति । एतच्च प्रतिज्ञानमग्रिमाणां भार्गवच्यावनाप्नवानौर्वजामदग्न्येत्यादीनां प्रवर इतिसंज्ञासिद्ध्यर्थम् । प्रव्रियन्तेऽग्नेर्विशेषणत्वेनोत्कीर्त्यन्त इति प्रवराः । तान्व्याख्यास्याम एकत्र संगृह्य कथयिष्यामः । अग्नेर्विशेषणत्वेनोत्कीर्तनं तु 'अग्ने महा असि ब्राह्मण भारत' इत्यादीष्टिमन्त्रेषु प्रतिपादितम् । विवाह उत्कीर्तनं तु स्वविशेषणत्वेनैव । अन्यस्यासंभवात् । विवाह आर्षगोत्रोच्चारणं तु वाचनिकं, तच्च सप्रवरत्वसगोत्रत्वशङ्कानिवारणार्थमदृष्टार्थं च भवति । शान्त्यादिकर्मसु तु वाचनिकं कुत्रचित् । कुत्रचिदाचारप्राप्तम् ।
प्रवरणं कर्तव्यमित्यस्मिन्नर्थे श्रुतिं प्रदर्शयति--
'आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्या इति विज्ञायते' इति ।
आर्षेयमृषेरपत्यमाहवनीयमग्निं यजमानेनोत्पादितत्वाद्यजमानस्यर्षिसंतानत्वात्तं वृणीते प्रार्थयते तद्गोत्रत्वायेति । एवं सति बन्धोरेव नैति पूर्वर्षिसंबन्धान्न च्यवते । अथो अपि च संतत्यै पूर्वेषां पूर्वजानामात्मनश्च संतानायेति विज्ञायते, श्रुतिरिति शेषः ।
देवैर्मनुष्यैश्चाऽऽर्षेयवरणं न कर्तव्यं किं तु ऋषिभिरेवेत्येतदर्थे श्रुतिं दर्शयति--
"न देवै[१]र्मनुष्यैरार्षेयं वृणीत ऋषिभि- |
- ↑ ङ वैर्न मनु ।