पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(सापिण्ड्यनिर्णयः)
 

विधीयते । अतश्च मातुलादिदुहितृष्विव तत्पुत्रष्वेपि सापिण्ड्यात्कन्यायाः सापत्नमातुलपुत्रेण न विवाह इत्याहुः ।

 मातुलकन्यापरिणयनं तु येषामाचारस्तेषामेवेतरः कुर्वन्दुष्यति ।

 तथा च बौधायनः--"पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतो यानि

दक्षिणतस्तान्यनुव्याख्यास्यामो यथैतदनुपेतेन सह भोजनं स्त्रिया सह
भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृगमनमित्यथोत्तरत ऊर्णावि-
क्रयः सीधुपानमुभयतोदद्भिर्व्यवहारः सायुधीयकं समुद्रयानमिति
तत्रेतर इतरस्मिन्कुर्वन्दुष्यति तत्तद्देशप्रामाण्यात्" इति ।

 इतरो दाक्षिणात्य इतरस्मिन्नुत्तरदेशे मातुलसंबन्धं कुर्वन्दुष्यति न स्वदेशे । तथेतर उदीच्य इतरस्मिन्दक्षिणदेश ऊर्णाविक्रयसीधुपानादिकं कुर्वन्दुष्यति न स्वदेशे । कुतः । देशप्रामाण्याद्देशनिबन्धनत्वादाचारप्रामाण्यस्येत्यर्थः ।

 बृहस्पतिरपि--

"उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः ।
मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपाश्चैव स्पृश्या नॄणां रजस्वलाः ।
सजाताश्चापि गृह्णन्ति भ्रातृभार्यामभर्तृकाम् ॥
सर्वदेशेष्वनाचारो रथ्याताम्बूलचर्वणम्" इति ॥

 देवलोऽपि--

" यस्मिन्देशे त्वनाचारो न्यायदृष्टः सुकल्पितः ।
स तस्मिन्नेव कर्तव्यो नान्यदेशे स ईरितः ॥
यस्मिन्देशे पुरे ग्रामे त्रैविद्ये नगरेऽपि वा ।
यो यत्र विहितो धर्मस्तं धर्मं न विचारयेत्" इति ॥

 ननु शिष्टाचारप्रामाण्ये स्वदुहितृविवाहोऽपि प्रसज्येत प्रजापतेराचरणात् । तथा च श्रुति:-"प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्" इति । मैवम् ।

  "न देवचरितं चरेत्" इति न्यायात् ।

 अत एव बौधायनः--

"अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् ।
नानुष्ठेयं मनुष्यैस्तु तदुक्तं धर्ममाचरेत्" इति ॥

 प्रत्युत दोषोऽभिहितः शातातपेन--

"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" इति ॥