पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४११
संस्काररत्नमाला
(सापिण्ड्यनिर्णयः)
 

 विशेषः स्मृत्यन्तरे--

"सापत्नमातुर्भगिनीं तत्सुतां च विवर्जयेत्[१]
पितृव्यपत्नीभगिनीं तत्सुतां च विवर्जयेत् ॥
गायत्र्या उपदेष्टुश्च कन्यां नैवोद्वहेद्द्विजः ।
गुरोश्च कन्यां शिष्यस्तु नोद्वहेत कदाचन" इति ।

 अन्योऽपि विशेषः--

"धात्रीपुत्रीं धात्रीभगिनीमिष्टपुत्रीमिष्टभगिनीमिष्टमातुलसुतां ज्येष्ठ-
भ्रातृभार्याभगिनीं स्वभार्यासहोदरामिष्टपितृभगिनीमिष्टमातृभगिनीं पितृ-
व्यपत्नीभगिनीं स्नुषाभगिनीं सापत्नमातृभगिनीं च नोद्वहेत्" इति ।

 गृह्यपरिशिष्टेऽपि--अथ विवाह इत्युपक्रम्याविरुद्धसंबन्धामुपयच्छेतेत्युक्त्वा दंपत्योर्मिथः पितृमातृसाम्ये विरुद्धसंबन्धो यथा भार्यास्वसुर्दुहिता पितृव्यपत्नीस्वसा चेति ।

 अस्यार्थः--यत्र दंपत्योर्वधूवरयोः पितृमातृसाम्यं वध्वा वरः पितृस्थानीयो भवति वरस्य वा वधूर्मातृस्थानीया भवति तादृशो विवाहो विरुद्धसंबन्धः । तत्र यथाक्रममुदाहरणद्वयम् । भार्यास्वसुर्दुहिता शालिकापुत्री, पितृव्यपत्नीस्वसा पितृव्यपत्नीभगिनी चेति । विरुद्धसंबन्धविषय उदाहरणान्तरमपि द्रष्टव्यम् ।

 नारदः--

"प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् ।
न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके" इति ॥

 स्वस्य कन्या यस्य पुत्राय दत्ता तत्कन्यकायाः स्वपुत्रेण परिणयनं प्रत्युद्वाहः ।

 सुमन्तुः--

"पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो
मातृष्वसारस्तद्दुहितरश्च भगिन्यस्तदपत्यानि भागिनेयान्य-
न्यथा संकरकारिणः स्युः" इति ।

 अत्र च यावद्वचनं वाचनिकमिति न्यायात्परिगणितेष्वेव सापिण्ड्यं न तु सप्तमादिपर्यन्तमिति केचित् ।

 अन्ये तूद्देश्यतावच्छेदकानां पितृपत्नीत्वतद्भ्रातृत्वादीनां भेदेन वाक्यभेदात्तन्निवृत्त्यै लक्षणंया सपत्नमातामहकुले चतुष्पुरुषं सापिण्ड्यमातिदेशिकं



  1. घ. ङ. त् । गा ।