पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४०९
संस्काररत्नमाला
(सापिण्ड्यनिर्णयः)
 

 यच्च विष्णुपुराणम्--

"पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थ उद्वहेत्कन्यां न्याय्येन विधिना नृप" इति ॥

 तत्पञ्चमीं सप्तमीमतीत्येति व्याख्येयम् । सप्तमात्पञ्चमादूर्ध्वं, वध्वा वरस्य वा तात इत्यादिवचनानुरोधात् ।

“पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।
क्रियापरा अपि हि ते विज्ञेयाः शूद्रतां गता" ॥

 इत्यपरार्के मरीचिवचनाच्च ।

 यत्तु षट्त्रिंशन्मते--

"तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा ।
विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः" इति ॥

 यदपि पैठीनसिः--

"त्रीनतीत्य मातृतः पञ्चातीत्य पितृतः" इति ।

 यदपि स्मृत्यर्णवे वचनं--

"कन्या चतुर्थी च वरश्च पञ्चमो वरश्चतुर्थो न तु पञ्चमीं वहेत् ।
पित्र्ये वहेत्पञ्चमषष्ठयोर्वा कन्या तृतीयाऽपि तथा चतुर्थी" इति ॥

 यदपि पराशरवचनं--

"चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्चमोऽपि वा ।
पराशरमते षष्ठीं पञ्चमो नतु पञ्चमीम्" इति ॥

 यान्यपि शाकलवचनानि--

"चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्च[१]मीं च वा ।
वहेत्संबन्धिनीं षष्ठीं पञ्चमो न तु पञ्चमीम् ॥
भवेतां पूर्वजात्पुत्रौ तयोरपि च संततिः ।
पञ्चमः पञ्चमीं कन्यां न तत्र वरयेद्द्विजः ॥
कन्ये द्वे पूर्वजात्स्यातां संततिः स्यात्तयोरपि ।
पञ्चमः पञ्चमीं तत्र वरः कन्यां समुद्वहेत् ॥
कन्यापुत्रौ तु संभूतौ पूर्वजात्संततिस्तयोः ।
यदि स्याद्वरयेत्तत्र पञ्चमः पञ्चमीमपि " इति ॥



५२
 
  1. ग. घ. ञ्चमोऽपि वा ।