पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(सापिण्ड्यनिर्णयः)
 

त्परम्परया वा शुक्रशोणितादिरूपेणानुस्यताः । विधात्रवयवान्वयातिप्रसङ्गपरिहारस्तु पूर्ववत्कर्तव्यः ।

"सप्तमात्पञ्चमादूर्ध्वं पितृतो मातृतस्तथा"

 इत्येतस्य वचसो निष्कृष्टोऽर्थः शास्त्रान्तरवचनाज्ज्ञेयः--

"वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः ।
पञ्चमी चेत्तयोर्माता सापिण्ड्यं विनिवर्तते" इति ॥

 यतः संतानभेदः स कूटस्थो मूलपुरुष इति यावत् । तमारभ्य वध्वा वरस्य वा तातः पिता सप्तमो यदि भवेत्तयोर्वधूवरयोर्यदि कूटस्थात्पञ्चमी माता भवेत्तदा सापिण्ड्यं निवृत्तं भवतीति । निर्गलितार्थस्तु पितृद्वारकसापिण्ड्यविचारे सप्तमादूर्ध्वं सापिण्ड्यनिवृत्तिः । मातृद्वारकसापिण्ड्यविचारे तु पञ्चमादूर्ध्वमिति ।

 संगृहीतोऽयमर्थो विश्वरूपनिबन्धे--

"एवमुक्तप्रकारेण सप्तमात्पितृतस्तथा ।
ऊर्ध्वमेव विवाह्यत्वं पञ्चमान्मातृतस्तथा ॥
संतानो भिद्यते यस्मात्पूर्वजादुभयत्र च ।
तमादायैव गणयेद्वरं यावच्च कन्यकाम्" इति ॥

 अत्रोदाहरणं यथा--कूटस्थो मूलपुरुषो देवदत्तः १ तत्पुत्रो ब्रह्मदत्तः २ तत्पुत्रो विष्णुदत्तः ३ तत्पुत्रः शिवदत्तः ४ तत्पुत्रो मित्रदत्तः ५ तत्पुत्रो हरदत्तः ६ तत्पुत्रो यज्ञदत्तः ७ तत्पुत्रः श्रीदत्तोऽष्टम इति पितृद्वारकं सापिण्ड्यं वरविषये ।

 मूलपुरुषो देवदत्त एव १ [१]तत्पुरुषो मातृदत्तः २ तत्पुरुषो रुद्रदत्तः ३ तत्पुरुषो भानुदत्तः ४ तत्कन्या श्रीदेवी ५ तत्कन्या श्रीदत्तभक्ता । इति मातृद्वारकसापिण्ड्यं वधूविषये ।

 अत्राष्टमः श्रीदत्तः षष्ठीं श्रीदत्तभक्तामुद्वहेत् । मूलपुरुषमारभ्य मध्ये कन्यासंततावप्येवमेव । वैपरीत्येऽप्येवम् ।

 यत्तु वसिष्ठः-- "पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा" इति ।

 उद्वहेदिति शेषः ।



  1. ङ. पुस्तक इत आरभ्य वाक्यत्रये तत्पुरुषशब्दस्थाने तत्पुत्रशब्दो वर्तते ।