पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८८
[स्नातकधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

 अत्र मतिर्नीतिशास्त्रादिविषया । धर्माद्युपदेशनिषेधस्य पृथगाम्नानात् । अत्र हरदत्तः--न शूद्रायोच्छिष्टं दद्यादित्यत्र गृहस्थशूद्राय नोच्छिष्टं दद्यादिति विवक्षितम् ।

"उच्छिष्टमन्नं दातव्यं शूद्रायागृहमेधिने ।
गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने" ॥

 इति व्याघ्रवचनादित्याह ।

 शूद्रायोपदेशनिषेधोऽपि साक्षादुपदेशविषयः ।

"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः" ।

 इति ब्राह्मणद्वारकोपदेशस्य विहितत्वात् ।

 वसिष्ठः--

"स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम्" इति ।

 एतद्धारणं नित्यम् । 'बहूनि चाऽऽयुष्कामस्य' इति देवलवचनाद्बहून्यप्युपवीतानि धार्याणि ।

 बहुत्वावधिमाह कश्यपः--

"त्रीणि चत्वारि पञ्चाष्टौ गृहिणः स्युर्दशापि वा " इति ।

 अत्र त्रिप्रभृति दशपर्यन्तमधिकधारणे फलभूमा कल्प्यः ।

माधवीये कौर्मे--

"यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ।
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ॥
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ।
स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् ॥
शुक्लाम्बरधरो नित्यं सुगन्धप्रियदर्शनः ।
न जीर्णमलवद्वासा भवेत्तु विभवे सति ॥
न रक्तमुल्बणं चान्यधृतं वासो न कन्थिकाम्" इति ॥

 पादुके दारुमये पादरक्षणे । रौक्मे परिमण्डलाकृती कुण्डले । वेदो दर्भमुष्टिः । वेदमित्यनन्तरं विभृयादिति शेषः । कृतं कर्तनेन हृस्वतां नीतं न तु वपनेन 'न समावृत्ता वपेरन्' इति निषेधात् । केशग्रहणं श्मश्रूपलक्षणम् । 'कृत्तकेशनखश्मश्रुः' इति मनूक्तेः । स्वाध्याये वेदाध्ययने नित्ययुक्तो भवेत् । बहिर्माल्यमित्यस्य माल्यं निर्माल्यं स्वशरीरादुद्धृतं चन्दनपुष्पादि पुनर्न धारयेत् । किंतु बहिस्त्यजेदित्यर्थः । उल्बणं शरीरपीडावहं बहुमूल्यं वा । अन्यधृतमन्येन परिहितम् । कन्थिका कन्था तां च न धारयेदित्यर्थः । असति बाधक एते धर्मा ब्रह्मचारिगृहस्थादिसाधारणा ज्ञेयाः ।