पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[समावर्तनप्रयोगः]
३७७
संस्काररत्नमाला ।

ण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा । ॐ प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रेषु प्रियं मा कुरु राजसु स्वाहा । ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा'

 इति पूर्वावशेषितेनाऽऽज्येन दर्व्या पञ्चभिर्मन्त्रैस्तदुपर्यभिजुहोति । हिरण्यायेदमिति त्यागः । अन्त्यस्यौषध्या इदमिति वा त्यागः । नात्राग्नेः परिषेको मणिकुण्डलसंस्कारत्वात् ।

 तत एतैरेव पञ्चभिर्मन्त्रैः स्वाहाकाररहितैः सर्वान्ते मणिकुण्डले च सहैव त्रिः प्रदक्षिणमुदपात्रे सम्यक्प्रक्षालयति सकृन्मन्त्रैर्द्विस्तूष्णीम् । ॐ विराजं च स्वराजं चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा स सृजामसि [ इति ] दक्षिणे कर्णे दक्षिणं कुण्डलं प्रतिमुञ्चति । 'ॐ ऋतुभिष्ट्वाऽऽर्तवैरायुषे वर्चसे संवत्सरस्य धायसा तेन सन्ननुगृह्णासि' [ इति ] दक्षिणकर्णस्थं कुण्डलं यथा न पतति तथाऽपिदधाति । 'ॐ विराजं च स्वराजं चाभिष्टोर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा स सृजामसि' [ इति ] वामे कर्ण उत्तरं कुण्डलं प्रतिमुञ्चति । 'ॐ ऋतुभिष्ट्वाऽऽर्तवैरायुषे वर्चसे संवत्सरस्य धायसा तेन सन्ननुगृह्णासि' [ इति ] सव्यकर्णस्थं कुण्डलं पूर्ववदपिदधाति । अत्र काण्डानुसमय एव 'संयुक्तानि त्वेकापवर्गाणि' इति सूत्रात् । 'ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोत्वपाशोऽसि' इति ग्रीवायामभिहोमसंस्कृतं मणिं बध्नाति । 'ॐ शुभि[१]के शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूया सं च भगं कुरु । यामाहरज्जमदग्निः श्रद्धायै कामायास्यै इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसा' [ इति ] द्वाभ्यामासादितां स्रजं धारयति । 'ॐ यदाञ्जनं त्रैककुदं जात हिमवत उपरि । तेन वामाञ्जेऽहं भगेन सह वर्चसा मयि पर्वतपूरुषम् । इत्यासादितेनाञ्जनेन द्वाभ्यां हस्ताभ्यां युगपदक्षिणी अनक्ति । तेन वामिति द्विवचनलिङ्गात् । केचित्तु यदाञ्जनमितिमन्त्रेण दक्षिणेन हस्तेन सव्यमनक्ति । एतेनैव मन्त्रेण दक्षिणम् । सव्यस्याक्षणः पूर्वमञ्जनं 'सव्य हि पूर्वं मनुष्या आञ्जते' इतिश्रुतिसिद्धमिति वदन्ति । तेषां द्विवचनलिङ्गविरोधः स्फुट एव । यन्मे मन इत्यस्य सोम आदर्शोऽनुष्टुप् । आदर्श आत्मावेक्षणे विनियोगः । 'ॐ यन्मे मनः परागतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि' इत्यात्मानमादर्शेऽवेक्षते । भानुवार आदर्शावेक्षणनिषेध एतस्य


४८
 
  1. घ. ड. के शोभ ।