पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७२
[समावर्तनसंस्कारः]
भट्टगोपीनाथदीक्षितविरचिता--
(समावर्तनकालः)
 

 मदनरत्ने नारदः--

"अथोत्तरायणे जीवशुक्रयोर्दृश्यमानयोः ।
द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥
मित्रोत्तरादितीज्यान्त्यहरीन्दुरविधातृषु ।
भेष्वर्केन्दुज्ञार्यशुक्रवारलग्नांशकेषु च ॥
अथवा बीजनक्षत्रवारलग्नांशकेष्वपि ।
प्रतिपत्पर्वरिक्ताख्या अष्टमी च दिनक्षयम् ॥
हित्वाऽन्यदिवसे कार्यं समावर्तनमण्डनम्" इति ॥

 बीजनक्षत्राणि बीजावापनक्षत्राणि ।

 वसिष्ठः--

"स्नानं मध्याह्नकाले तु रोहिण्यां कारयेच्छुभम् ।
पूर्वाह्णे तदभावे च कुर्यात्स्नानं यथाविधि" इति ॥

 इदं तु ब्रह्मचारिकर्तृकमेव । समावर्तनात्प्राक्कर्माण्याचार्यकर्तृकाणि यावदुक्तं ब्रह्मचारी करोति । समावर्तनं तु ब्रह्मचारिकर्तृकमेव । अधीत्य वेद स्नानमितिसूत्रेऽधीत्येतिक्त्वाप्रत्ययेनाध्ययनस्नानयोः समानकर्तृकत्वस्योक्तत्वात् ।

अथ प्रयोगः ।

 ब्रह्मचारी साङ्गसार्थवेदाध्ययनव्रताभ्यां संपन्नः साङ्गसार्थवेदाध्ययनमात्रसंपन्नो वा वेदाध्ययनमात्रसंपन्नो वा व्रतमात्रसंपन्नो वा परिपालितब्रह्मचारिनियमः कृतकाण्डव्रतोपाकरणोत्सर्जनगोदानः कृताध्यायोपाकरणो गुरुं दक्षिणान्नादिना संतोष्य तेनानुज्ञात उदगयन आपूर्यमाणपक्षे रिक्तापर्वाष्टमीप्रतिपद्व्यतिरिक्तद्वितीयाद्यन्यतमतिथौ भानुसोमबुधगुरुशुक्रान्यतमे वारे तदंशहोरायां रोहिणीमृगतिष्योत्तराफल्गुनीहस्तचित्राविशाखान्यतमे सूत्रविहिते नक्षत्रे तदसंभवे पुनर्वस्वनूराधाज्येष्ठाश्रवणोत्तराभाद्रपदारेवत्यन्यतमे शास्त्रान्तरोक्ते नक्षत्रे मेषवृश्चिकसिंहभिन्नलग्ने गुरुशुक्रास्तबाल्यवार्धक्यमलमासवक्रातिचारदिनक्षयादिदोषशून्ये दिवसे ज्योतिर्वित्प्रोक्ते सुमुहूर्त आचार्यगृह उदकसमीपे वा गोष्ठे वा स्नानापरपर्यायं समावर्तनाख्यं कर्म कुर्यात् । यदा गोष्ठे तदा तृणवस्त्रादिभिर्गोष्ठं प्रच्छाद्य यथा सूर्यकिरणानामपि दर्शनं न भवति तथा सम्यक्कटादिना परिश्रित्य सूर्योदयात्प्रागेव तत्र प्रविश्य तत्रैव सर्वं कर्म कृत्वा रात्रौ बहिर्गन्तव्यम् । कृतनित्यक्रिय उभयकालेऽग्निकार्यक्रियांपक्षे प्रातरग्निकार्यं कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम गृह