शातातपः--
"आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । |
अस्मिन्वाक्ये पुनरितिश्रवणादभ्यासे प्रायश्चित्तं नास्त्येव तस्य किंतु सर्वदा सोऽशुचिरेवेति ।
अथ काण्डव्रतलोपप्रायश्चित्तम् ।
कृतनित्यक्रियो ब्रह्मचारी प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम काण्डव्रतलोपजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रतिकाण्डव्रतं होमपूर्वकमेकैककृच्छ्रात्मकं प्रायश्चित्तमहमाचरिष्ये । अशक्तौ त्वमुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्प्योल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र वि[१]ण्नामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा काण्डव्रतलोपप्रायश्चित्तहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं गायत्र्याऽष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभिर्वाऽऽज्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणमित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वोक्त्वाऽन्वाधानोत्कीर्तितपक्षानुसारेण व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । गायत्र्या विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः । काण्डव्रतलोपप्रायश्चित्तप्रधानाज्यहोमे विनियोगः । "ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्स्वाहा" इति प्रतिकाण्डव्रतं गायत्र्या यथोक्तसंख्ययाऽऽहुतीर्जुहुयात् । सवित्र इदमिति त्यागः ।
ततः प्रत्येकं कृच्छ्रात्मकं प्रायश्चित्तं विदध्यात् । अशक्तौ गोदानाद्यन्यतमप्रत्याम्नायेन । तत इमं मे वरुणेत्यादि स्विष्टकृदादि वा होमशेषं समापयेत् । न त्रिवृदन्नहोमः । ततो ब्राह्मणभोजनं विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
आपूर्विकपक्षेण वा प्रयोगः ।
पूर्ववत्संकल्पप्रभृति ताः सर्वाः परिग्रहीष्यामीत्येतदन्तं कृत्वा प्रधानहोमे प्रतिकाण्डव्रतं सवितारं गायत्र्याऽष्टोत्तरसहस्रसंख्याभिरष्टोत्तरशतसंख्याभि
- ↑ ग. विटनामा।