लायनसूत्रे रात्रौ यागनिषेधात् । न चैतदेव निशि कर्तव्यतायाः प्रापकमस्त्विति वाच्यम् । पाकयज्ञविधानेनेत्येतद्विरोधापत्तेः । निर्ऋते रक्षोधिपतित्वात् । निर्ऋतेर्देवतात्वपक्षे चाप्येवमेव । रक्षोदेवतात्वपक्षेऽपि तथा । रक्षसां रात्रिसंचारित्वात् । मनुवचने पाकयज्ञश[१]ब्दे साहचर्याद्यजिधातोः प्रयोगो गौणः[२] । तत्रेति विहाय[३] तस्येतिवचनेन पशुधर्मपक्षेऽपि शूद्रकर्तृकमेव प्राशनमिति बोध्यते । यदि पाकयज्ञतन्त्र एव शूद्रकर्तृकप्राशनमिष्टं भवेत्तदा तत्रेति पाकयज्ञतन्त्रकमेव कर्म निर्दिश्येत । अतः पाशुकतन्त्रपक्षेऽपि शूद्रकर्तृकमेव प्राशनम् ।
हा[४]रीतेनात्र विशेष उक्तः--
- "स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभेन पशुना यजेत पाकयज्ञधर्मेण भूमौ पशुपुरोडाशश्रपणमप्स्ववदानैः प्रचर्य जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिद्रुग्वोऽस्म्यभिद्रुग्धोऽस्मि काम कामाय स्वाहेति" [ इति । ]
अवदानप्रचारोत्तरमेताभ्यां मन्त्राभ्यां होम उक्तः । कतिधाऽवकीर्णीत्यस्मिन्खण्डे तु, अमावास्यायां रात्रावग्निप्रणयनोपसमाधानपूर्वकं कामावकीर्णोऽस्मि कामाभिद्रुग्धोऽस्मीत्येताभ्यामाज्येनाऽऽहुतिद्वयं तदनन्तरं प्रयताञ्जलेरीषत्तिर्यग्भूतस्य सं मा सिञ्चन्त्वित्यनेन प्रणीताग्नेस्त्रिरभिमन्त्रणं वरदानं चोक्तम् ।
इत्यवकीर्णिप्रायश्चित्तम् ।
अथ श्वदष्टप्रायश्चित्तम् ।
तत्र पराशरः--
"ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पयः पिबेत् । |
एतत्प्रायश्चित्तं नैष्ठिकेन[६] सर्वं द्विगुणं कार्यम् ।
तथा च हारीतः--
"उपकुर्वंस्तु यः कुर्यात्कामतोऽकामतोऽपि वा । |