सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
[कर्मदेवतानामानि]
भट्टगोपीनाथदीक्षितविरचिता--
(पुण्याहवाचनविधिः)
 

कर्मदेवतानामानि ।

कर्मदेवता आह बौधायनः--

 "अथ पुण्याहदेवता व्याख्यास्यामो विवाहस्या[१]ग्निरौपासनस्याग्निसूर्यप्रजापतयः स्थालीपाकस्याग्निर्गर्भाधानस्य ब्रह्मा पुंसवनस्य प्रजापतिः सीमन्तस्य धाता विष्णुबलेर्विष्णुर्जातकर्मणो मृत्युर्नामकर्मणः सविता तस्यान्ते प्रजापतिरुपनिष्क्रमणस्य सविता तस्यान्ते चित्रियाण्यन्नप्राशनस्य सविता चौलस्य केशिनस्तस्यान्ते प्रजापतिरुपनयनस्येन्द्रः श्रद्धामेधे अन्ते विसर्गे सुश्रवाः पुनरुपनयनस्याग्निरथ यदि ब्रह्मचार्यव्रत्यमाचरेत्तस्मिन्नपायहोमे सविता समावर्तनस्य श्रीरिन्द्रो वा शूलगवस्येशानः प्रत्यवरोहणस्य सवितोपाकर्मणि व्रतेषु च सविता वास्तुहोमस्य वास्तोष्पतिरन्ते प्रजापतिरहुतहोमस्येन्द्रोऽन्ते प्रजापतिरायुष्यहोमस्याग्निरायुष्मान्नक्षत्रहोमस्य नक्षत्रेष्टिषूक्ताऽष्टमी प्रदोषस्येशान आग्रयणस्याऽऽग्रयणदेवताः सर्पबलेः सर्पा एकोद्दिष्टस्यान्ते प्रजापतिस्तडागादीनां वरुणो यक्षबलेर्यक्षा ग्रहशान्तिहोमस्याऽऽदित्यादिनवग्रहा नागारितन्त्रहोमे ब्रह्मादयः प्रीयन्तामित्येवमेवान्येषां होमानां यान्न्यानुवाक्ययोर्देवताऽसौ प्रीयतामिति सूतकान्ते प्रधामोदकान्ते प्रजापतिः कूष्माण्डहोमस्याऽऽदित्यादयश्चान्द्रायणस्याग्न्यादयोऽग्न्याधेयस्याग्न्यादयोऽग्निष्टोम इन्द्र एवमनादिष्टकर्मसु प्रजापतिरित्याह भगवान्बौधायनः" इति ।

पुण्याहवाचनविधिः ।

पुण्याहवाचनविधिमप्याह स एव--

 "अथातः पुण्याहवाचनं व्याख्यास्यामः शुचौ समे देशे दूर्वादर्भान्धारयमाणाश्चत्वारो ब्राह्मणाः प्रशस्ता अरिक्तहस्ताः प्राङ्मुखास्तिष्ठन्ति तेषां दक्षिणत उदङ्मुखोऽपिहितमुदकुम्भं धारयन्वाचयिता तस्य दक्षिणं

बाहुमाश्रित्य पत्नयस्तिष्ठन्ति ततः सपवित्रेषु विप्रपाणिषु जलं दद्यादोमाप इति शिवा आपः सन्त्विति ते प्रत्यूचुस्ततो गन्धा इति गन्धं


  1. ↑ ग. घ. स्याग्निः प्रीयतामापासनस्याग्निसूर्यप्रजापतयः प्रीयन्तां पञ्चमेऽहन्युदुम्बरो दशमेऽहन्यन्ते चित्रियाणि स्था ।