पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुण्याहवाचनप्रयोगः]
३३
संस्काररत्नमाला ।

ददाति सुगन्धाः पान्त्विति प्रतिगृह्णन्ति ततः सुमनस इति पुष्पाणि ददाति सौमनस्यमस्त्विति प्रतिगृह्णन्ति ततोऽक्षता इत्यक्षतान्ददाति ।

अक्षतशब्देन व्रीहिमिश्रास्तण्डुला उच्यन्ते ।

अक्षतं चारिष्टं चास्त्विति प्रतिगृह्णन्ति । ततो दक्षिणा इति दक्षिणां ददाति स्वस्ति दक्षिणाः पान्तु बहुदेयं चास्त्विति प्रतिगृह्णन्ति । ततो वाचयिता दक्षिणं जानु भूमौ निधाय सव्यमुत्थाप्योदङ्मुख इडा देवहूरिति जपित्वोद्कुम्भमादायोपोत्तिष्ठति । ततो मनः समाधीयतामिति वदति समाहितमनसः स्म इति विप्राः प्रत्यूचुस्ततो वाचयिता प्रसीदन्तु भवन्त इति वदति प्रसन्नाः स्म इति विप्राः प्रत्यूचुस्ततो वाचयिता शान्तिरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्त्वविघ्नमस्त्वायुष्यमस्त्वारोग्यमस्तु शिवं कर्मास्त्विति वदति तथाऽस्त्विति विप्राः प्रत्यूचुः कर्म यद्देवत्यं भवति तस्य नाम गृह्णात्यसौ प्रीयतामिति । ततः पुण्याहं भवन्तो ब्रुवन्त्वित्यों पुण्याहमिति विप्राः प्रत्याहुस्ततः स्वस्ति भवन्तो ब्रुवन्त्वित्यों स्वस्तीति विप्राः प्रत्याहुस्तत ऋद्धिं भवन्तो ब्रुवन्त्वित्योमृध्यतामिति विप्राः प्रत्याहुः सर्वाणि त्रिस्त्रिर्वाचयति । ततो विप्रा उपविश्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिश्च वाचयितारमभिषिञ्चेयुस्ततो वाचयिता भूर्भुवः सुवरोमिति जपतीत्याह भगवान्बौधायनः" इति ।

 प्रशस्ताः श्राद्धभोजनप्रतिग्रहादिरहिताः । सुरभिमती-- "दधिक्राव्णो अकारिषम्" इत्यृगेका । अब्लिङ्गाः--आपो हि ष्ठादयः । वारुण्यः-- "यच्चिद्धि ते" इत्यादयः । हिरण्यवर्णाः-- "हिरण्यवर्णाः शुचयः पावकाः" इत्यादयः । पावमान्यः--"पवमानः सुवर्जनः" इत्यनुवाकोपात्ताः । अन्यत्स्पष्टम् ।

अथ सकलशिष्टपरिगृहीतः पुण्याहवाचनप्रयोगः ।

 सपत्नीकः कर्ता कृतनित्यक्रियः कृतमाङ्गलिकस्नानः स्वलंकृतो बद्धशिखो गोमयेनोपलिप्तायां भूमौ कंचित्प्रदेशं पुण्याहवाचनकलशस्थापनार्थं रङ्गवल्लिकाभूषितं कृत्वा तदुत्तरत उक्तरीत्या सर्वान्संभारान्निधाय रङ्गवल्लिकाभूषितप्रदेशस्य पश्चाद्वस्त्राच्छादिते पीठे प्राङ्मुख उपविश्य पत्नीं स्वस्य दक्षिणतः प्राङ्मुखीमुपवेश्य तद्दक्षिणतो युग्मान्ब्राह्मणानुदङ्मुखान्स्वस्योत्तरतः प्राङ्मुखान्योपवेशयेत् । पुत्रादिसंस्कारकर्माङ्गपुण्याहवाचनादौ तु पत्नीदक्षिणतः संस्कार्योऽप्युपवेशनीयः । ततः पवित्रपाणिराचम्य प्राणानायम्येष्टदेवतादिनमस्कार