पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आरुणकाण्डव्रतप्रयोगः]
३५१
संस्काररत्नमाला ।
(व्रताकरणे प्रायश्चित्तम् )
 

काण्डव्रतोपाकरणं करिष्य इति संकल्पवाक्यम् । आरुणकाण्डव्रतोपाकरणहोमकर्मणि० सदसस्पतिमाज्याहुत्याऽरुणाकाण्डर्षीनाज्याहुत्येति । अरुणान्काण्डर्षीनाज्याहुत्या सदसस्पतिमाज्याहुत्येति विपरीतं वेति चान्वाधाने । आरुणकाण्डव्रतोपाकरणप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । अन्वाधानोत्कीर्तितपक्षानुसारेण सदसस्पतिहोमानन्तरं तत्पूर्वं वाऽरुणेभ्यः काण्डर्षिभ्यः स्वाहेत्याहुतिः । अरुणेभ्यः काण्डर्षिभ्य इदमिति त्यागः । इति होमे विशेषः । अन्यत्समानम् ।

 ततो दूर्वादर्भधारणादिमहानाम्नीभिरुदकस्पर्शनान्तं कृत्वा भद्रप्रपाठकमध्यापयेत् ।

 ततस्तूष्णीं मदन्त्युपस्पर्शनादि भूम्यालम्भनान्तं दूर्वादर्भधारणादि भूम्यालम्भनान्तं यावदध्ययनमहरहः कर्तव्यम् । न प्रत्यहं होमः । अ[१]धीतेऽस्मिन्काण्ड उत्सर्जनम् । आरुणकाण्डाध्ययनार्थं स्वीकृतस्याऽऽरुणकाण्डव्रतस्योत्सर्जनं करिष्य इति संकल्पवाक्ये । आरुणकाण्डव्रतोत्सर्जनहोमकर्मणीत्यन्वाधाने । आरुणकाण्डव्रतोत्सर्जनप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये । उपस्थानमन्त्रेषु अग्ने व्रतपत इत्येष एव प्रथमो मन्त्रः । नाऽऽदित्य व्रतपत इति । अन्ते कंसादिदक्षिणादानमिति प्रयोगः । यद्यालस्याद्विद्याकाले व्रतमकृतं चेत्तदाऽष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्र्याऽऽज्याहुतीर्हुत्वा कृच्छ्रं प्रायश्चित्तं कृत्वाऽऽरुणकेतुकस्य प्रथमाहारे व्रतं चरित्वा नियमपूर्वकमाचार्यसकाशात्सकृत्प्रपाठकमधीत्याग्निं प्रयुञ्ज्यात् । आरुणकेतुकस्याकर्तव्यतायामपि प्रायश्चित्तपूर्वकमुक्तनियमपूर्वकमाचार्यसकाशात्सकृत्प्रपाठकाध्ययनमावश्यकम् ।

इत्यारुणकाण्डव्रतप्रयोगः ।

 ततः सांहितीदेवतोपनिषदादीनामनन्तर्भावपक्ष एतान्यपि पृथक्पृथगुपाकृत्योत्सृजेत् । एतदध्ययने शान्त्युत्तरं "यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्" इत्यारभ्य "श्रुतं मे गोपाय" इत्यन्तं पठित्वा शि[२]ष्यमपि पाठयित्वाऽध्यापनं कुर्यात् । अन्ते पुनः पठित्वा पाठयित्वा शान्तिः ।


  1. ङ. धीते तस्मि ।
  2. ख. ङ. शिष्येणापि ।