पूर्वकर्तव्यतामाह हारीतः--
"गोमयेनोपलिप्योर्वीं रङ्गवल्लिकयाऽर्चयेत् । |
प्रतिष्ठाप्यमित्यत्रोपसर्गात्सुनोतीति षत्वम् । पूर्णमुदकपूर्णम् ।
दक्षिणे चोत्तरे चैव उत्तरे तु निधापयेत् । |
अयमर्थः--यत्र स्वस्तिवाचनं करिष्यन्भवति तत्राऽऽदौ गोमयेन भूमिमुपलिप्य रङ्गवल्लिकया तां भूषयेत् । ततो भूषितभूप्रदेशादुत्तरतः प्रस्थपरिमितं धान्यं स्थापयिष्यमाणकलशद्वयाधःप्रदेशद्वये पुञ्जीकरणार्थं संस्थाप्य तदुत्तरतः शुद्धोदकपूरितं कलशद्वयं स्थापयिष्यमाणकलशद्वयपरिपूरणार्थमुदक्संस्थं निधाय तदुत्तरतः पूजोपयोगिताम्बूलादिद्रव्याणि संस्थापयेत् । ताम्बूलाक्षतादिपात्राणि कुङ्कुमेन रञ्जितानि कार्याणि । एवं कलशद्वयं पूजोपयोग्यक्षताश्च । पुण्यतीर्थजलपूरितं तृतीयं कलशं गणपत्यादिपूजार्थं निधाय सुवर्णफलधूपादिद्रव्याणि तृतीयकलशसमीपे निधाय स्थापयिष्यमाणकलशद्वयाननापिधानार्थं पात्रद्वयं समीपे संस्थाप्य तत्पूरणार्थाक्षतापात्रं कलशोपरि निधाय संकल्पमारभेदिति ।
प्रस्थपलयोः परिमाणम् ।
प्रस्थपरिमाणं तु स्मृतिसंग्रहे--
"पलं च कुडवः प्रस्थ आढको द्रोण एव च । |
पलपरिमाणं भविष्यपुराणे--
"पलद्वयं तु प्रसृतं मुष्टिरेकं पलं स्मृतम्" इति । |
स्कान्दे त्वन्यथोक्तम्--
"पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्" इति । |
कृष्णलो गुञ्जा । तैर्माषैः ।