पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२६
[अध्येतृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--
(मन्दबुद्धित्वहरं विधानम् )
 

 वृषलभीतेन वृषलत्वभीतेन ।

 लघुव्यासः--

"ऋक्पादमप्यधीयीत मार्गेणोक्तेन धर्मवित् ।
न त्वेव चतुरो वेदानन्यायेन कथं चन" इति ॥

 [१]वेदविस्मरणे दोष उक्तो वराहपुराणे--

"जातायामपि विद्यायां विस्मरेत्पठितां श्रुतिम् ।
अनधीत्या प्रमादेन मृतो गर्दभतां व्रजेत् ॥
यावद्वेदोत्थवर्णानां पठितानां च विस्मृतिः ।
तावद्वर्षाणि भुङ्क्ते स खरयोनिं द्विजोत्तमः" इति ॥

 जातायां वेदविद्यायामपि । अनधीत्याऽनध्ययनेन हेतुना यदि पठितामपि श्रुतिं विस्मरेत्तदा स्वाचारसंपन्नोऽपि द्विजोत्त[२] श्रुत्यक्षर[३]संख्यवर्षपर्यन्तं खरयोनिं प्राप्नोतीत्यर्थः ।

इति संक्षेपेणाध्येतृधर्माः ।

अध्ययनधर्मास्तु पाणिनीयशिक्षाप्रातिशाख्यभारद्वाजशिक्षादिषु द्रष्टव्याः ।


अथ प्रसङ्गान्मन्दबुद्धित्वहरं विधानम् ।

 तत्र ऋग्विधानम्--

"ओष्ठापिधानामन्त्रं च जपेद्दशदिनं प्रति ।
वाग्देवी मातृका तस्य जिह्वाग्रे वर्तते सदा ॥
ओष्ठामन्त्रेण जुहुयाद्विद्याश्रीस्तत्कुले स्थिरा ।
त्रिमधुं चाष्टसाहस्रं प्रतिवर्षं तु फाल्गुने" इति ॥

 त्रिमधुमित्यत्र पुंस्त्वमार्षम् । आज्यं क्षीरं मधु चेति मधुत्रयं, तच्च मिश्रितमेव न तु पृथक् । एतद्द्रव्यत्रयं तोलनेन समप्रमाणं कृत्वैव ग्राह्यम् । संभव आज्यक्षीरे गोरेव मुख्ये । अष्टसाहस्रमष्टसंख्य[४]साहस्रमष्टाधिकसाहस्रं वा । प्रतिवर्षमित्यत्र वर्षसंख्याया अनुक्तत्वाद्यावच्छक्यम् । अस्य मन्त्रस्य ब्रह्मा, ऋषिः । अनुष्टुप्छन्दः । नकुली सरस्वती देवता ।

 ध्यानम्--

"विकासभाजि हृत्पद्मे स्थितामुल्लासदायिनीम् ।
परवाक्स्तम्भिनीं नित्यां स्मरामि नकुलीं सदा" इति ।


  1. एतत्प्रभृति प्राप्नोतीत्यर्थ इत्यन्तं ङ. पुस्तके नास्ति ।
  2. ख. घ. त्तमोऽक्ष ।
  3. ग. रव ।
  4. ख. ख्यया सा ।