पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अध्येतृधर्माः]
३२५
संस्काररत्नमाला ।

 शुश्रूषया रहिताया विद्याया निष्फलत्वमुक्तं नारदीयशिक्षायाम्--

"शुश्रूषाविरहिता विद्या यद्यपि मेधागुणैः समुपयाति ।
वन्ध्येव यौवनवती न तस्य विद्या सफला भवति" इति ॥)

 अध्ययनकर्त्रा शूद्रान्नं वर्जनीयमित्याह पराशरः--

"शूद्रान्नरसपुष्टस्य ह्यधीयानस्य नित्यशः ।
जपतो जुहृतो वाऽपि गतिरूर्ध्वा विद्यते" इति ॥

 ऊर्ध्वा गतिः स्वर्गगतिः ।

 आपत्कालेऽब्राह्मणादप्यध्येतव्यमित्याह मनुः--

"अब्राह्मणादध्ययनमापत्काले विधीयते ।
अनुव्रज्यादिशुश्रूषा यावदध्ययनं गुरोः" इति ॥

 ([१]अब्राह्मणात्क्षत्रियाद्वैश्याद्वा । अनुव्रज्या शुश्रूषेत्यनुगमनमात्रं कार्यं न पादप्रक्षालनादि । इयं चाऽऽपद्ब्राह्मणाध्यापकाभावरूपाऽध्येतुः ।

 गौतमोऽपि--

"आपत्कल्पोऽब्राह्मणाद्ब्राह्मणस्य विद्योपयोगोऽनुगमनं शुश्रूषाऽऽसमाप्तेः" इति ।

 अब्राह्मणादा समाप्तेरित्युभयत्र पदच्छेदो द्रष्टव्यः ।

 गरुडपुराणे--

"आहुः समस्तविद्यानां वेदविद्यामनुत्तमाम् ।
अतस्तद्दातुरस्त्येव लाभः स्वर्गापवर्गयोः" इति ॥

 महाभारते--

"यो ब्रूयाच्चापि शिष्येभ्यो धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां स तुल्यफलमश्नुते" इति । )

 एतदध्ययनमुपाकर्म कृत्वा कर्तव्यमित्याह कार्ष्णाजिनिः--

"नभोमासे नभस्ये वा समुपाकृत्य सूत्रतः ।
द्विजश्छन्दांस्यधीयीत मासान्पञ्चार्धसंमितान्" इति ॥

 सूत्रतः सूत्रोक्तप्रकारेण ।

 वेदाध्ययनं कर्तुमशक्तस्यैकदेशाध्ययनमप्यनुजानाति पराशरः--

"अग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः ।
वेदांश्चैवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥
तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः ।
अध्येतव्योऽप्येकदेशो यदि सर्वो न शक्यते" इति ।


  1. धनुश्चिह्नान्तर्गतं ड. पुस्तके नास्ति ।